कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ । कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥
kaṁ naś citram iṣaṇyasi cikitvān pṛthugmānaṁ vāśraṁ vāvṛdhadhyai | kat tasya dātu śavaso vyuṣṭau takṣad vajraṁ vṛtraturam apinvat ||
कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒ऽग्मान॑म् । वा॒श्रम् । व॒वृ॒धध्यै॑ । कत् । तस्य॑ । दातु॑ । शव॑सः । विऽउ॑ष्टौ । तक्ष॑त् । वज्र॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्वत् ॥ १०.९९.१
BRAHMAMUNI
इस सूक्त में परमात्मा कर्मफल देनेवाला, ज्ञानप्रकाशदाता, स्तुतिकर्ता को मोक्ष में लेनेवाला, दुष्ट को दण्ड देता है। उसकी उपासना से उपासक अपनी इन्द्रियों को वश करता है, इत्यादि विषय वर्णित हैं।
HARISHARAN SIDDHANTALANKAR
अद्भुत आनन्दप्रद ज्ञान की प्राप्ति
BRAHMAMUNI
अस्मिन् सूक्ते परमात्मा कर्मफलविधाता ज्ञानप्रकाशस्य दाता स्तोतारं मोक्षे स्वीकर्ता, दुष्टाय दण्डं प्रयच्छति, तदुपासनेनोपासकः स्वेन्द्रियाणि वशीकरोतीत्येवमादयो विषयाः वर्ण्यन्ते।
