Go To Mantra

ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि । वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥

English Transliteration

ete vadanty avidann anā madhu ny ūṅkhayante adhi pakva āmiṣi | vṛkṣasya śākhām aruṇasya bapsatas te sūbharvā vṛṣabhāḥ prem arāviṣuḥ ||

Pad Path

ए॒ते । व॒द॒न्ति॒ । अवि॑दन् । अ॒ना । मधु॑ । नि । ऊ॒ङ्ख॒य॒न्ते॒ । अधि॑ । प॒क्वे । आमि॑षि । वृ॒क्षस्य॑ । शाखा॑म् । अ॒रु॒णस्य॑ । बप्स॑तः । ते॒ । सूभ॑र्वाः । वृ॒ष॒भाः । प्र । ई॒म् । अ॒रा॒वि॒षुः॒ ॥ १०.९४.३

Rigveda » Mandal:10» Sukta:94» Mantra:3 | Ashtak:8» Adhyay:4» Varga:29» Mantra:3 | Mandal:10» Anuvak:8» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (एते) ये विद्वान् (अविदन्) जब परमात्मा को जानते तब ही (अना वदन्ति) उसका मुख से उपदेश करते हैं (वृक्षस्य पक्वे) वृक्ष के पके हुए (आमिषि-अधि) सम्भजनीय फल के अन्दर (मधु न्यूङ्खयन्ते) मधुर रस अन्न के समान सेवन करते हैं या अन्न बनाते हैं (सुभर्वाः) शोभन भोजनवाले (वृषभाः) ज्ञानवर्षक (अरुणस्य शाखाम्) आरोचमान  पुष्पित फलित वृक्ष की शाखा पर लगे (वप्सतः) फल के समान ज्ञानफल का भक्षण करते हैं (ईं प्र-अराविषुः) उस परमात्मा को और उसके ज्ञान को बोलते हैं, उपदेश करते हैं ॥३॥
Connotation: - विद्वान् जन जैसे ही परमात्मा को जानते हैं, तुरन्त उसका उपदेश किया करते हैं। पुष्पित फलित वृक्ष के अन्दर जैसे रस का आस्वादन-भोजन करते हैं, ऐसे ही प्रकाशमान परमात्मा के ज्ञानफल को ज्ञानी जन सेवन करते हैं और अन्य को उपदेश देते हैं ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (एते) इमे विद्वांसः (अविदन्) यदा परमात्मानं विदन्ति-जानन्ति तदैव (अना वदन्ति) अन्यते, प्राण्यते प्राणो गृह्यते येन तत्-अन् मुखं तेन मुखेन वदन्ति-उपदिशन्ति (वृक्षस्य पक्वे-आमिषि-अधि) वृक्षस्य पक्वे सम्भजनीये फले “सम्भक्तौ” [भ्वादि०] ततः “अमेर्दीर्घश्च-टिषच् प्रत्ययः” [उणादि० १।४६] तत्फलस्यान्तरे (मधु न्यूङ्खयन्ते) मधुरं रसमन्नमिव सेवन्तेऽन्नं कुर्वन्ति वा “अन्नं वै न्यूङ्खः” [ऐत० ५।३] (सुभर्वाः-वृषभाः) शोभनभोजनाः “सुभर्वं भर्वतिरत्तिकर्मा” [निरु० ९।२३] (ज्ञानवर्षकाः) (अरुणस्य शाखां वप्सतः) आरोचमानस्य पुष्पितफलितस्य वृक्षस्य शाखायां “सप्तम्यर्थे द्वितीया व्यत्ययेन छान्दसी” ज्ञानफलं भक्षयन्तः (ईं-प्र-अराविषुः) तं परमात्मानं तज्ज्ञानं शब्दयन्ति-उपदिशन्ति ॥३॥