Go To Mantra

सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त । सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥

English Transliteration

sumaṅgalīr iyaṁ vadhūr imāṁ sameta paśyata | saubhāgyam asyai dattvāyāthāstaṁ vi paretana ||

Pad Path

सु॒ऽम॒ङ्ग॒लीः । इ॒यम् । व॒धूः । इ॒माम् । स॒म्ऽएत॑ । पश्य॑त । सौभा॑ग्यम् । अ॒स्यै॒ । द॒त्त्वाय॑ । अथ॑ । अस्त॑म् । वि । परा॑ । इ॒त॒न॒ ॥ १०.८५.३३

Rigveda » Mandal:10» Sukta:85» Mantra:33 | Ashtak:8» Adhyay:3» Varga:26» Mantra:3 | Mandal:10» Anuvak:7» Mantra:33


Reads times

BRAHMAMUNI

Word-Meaning: - (इयं वधूः सुमङ्गलीः) यह नवविवाहिता वधू शुभमङ्गलवाली है (इमां पश्यत समेत) हे इसके सम्बन्धी जनो तथा हितचिन्तको ! इसका दर्शन करो और सम्यक् आलिङ्गन करो (अस्यै सौभाग्यं दत्त्वाय) इसके लिए “सौभाग्य हो” यह आशीर्वाद देकर (अथ) पुनः (अस्तं विपरेतन) अपने-अपने घर को जाओ ॥३३।
Connotation: - वधू घर में मङ्गल का सञ्चार करनेवाली है। सम्बन्धी और हितचिन्तक सौभाग्य का आशीर्वाद दें और स्नेह से मिलें ॥३३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (इयं वधूः सुमङ्गलीः) एषा वधूर्नवविवाहिता शुभानि मङ्गलानि यस्यां तथा भूतास्ति “सुमङ्गलीः शोभनानि मङ्गलानि यासु ताः” [ऋ० १।११२।१३ दयानन्दः] (इमां पश्यत समेत) हे सम्बन्धिनो जनाः ! सखायश्च ! एतां पश्यत सम्यक् श्लिष्यत (अस्यै सौभाग्यं दत्त्वाय) अस्यै सौभाग्यमित्याशीर्दत्त्वा (अथ) अनन्तरं (अस्तं विपरेतन) स्वगृहं वियुज्य गच्छत ॥३३॥