इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या । अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या ॥
imam me gaṅge yamune sarasvati śutudri stomaṁ sacatā paruṣṇy ā | asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhy ā suṣomayā ||
इ॒मम् । मे॒ । ग॒ङ्गे॒ । य॒मु॒ने॒ । स॒र॒स्व॒ति॒ । शुतु॑द्रि । स्तोम॑म् । स॒च॒त॒ । परु॑ष्णि । आ । अ॒सि॒क्न्या । म॒रु॒त्ऽवृ॒धे॒ । वि॒तस्त॑या । आज्र्जी॑कीये । शृ॒णु॒हि । आ । सु॒ऽसोम॑या ॥ १०.७५.५