सोषाम॑विन्द॒त्स स्व१॒॑: सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि । बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥
soṣām avindat sa svaḥ so agniṁ so arkeṇa vi babādhe tamāṁsi | bṛhaspatir govapuṣo valasya nir majjānaṁ na parvaṇo jabhāra ||
सः । उ॒षाम् । अ॒वि॒न्द॒त् । सः । स्व१॒॑रिति॑ स्वः॑ । सः । अ॒ग्निम् । सः । अ॒र्केण॑ । वि । ब॒बा॒धे॒ । तमां॑सि । बृह॒स्पतिः॑ । गोऽव॑पुषः । व॒लस्य॑ । निः । म॒ज्जान॑म् । न । पर्व॑णः । ज॒भा॒र॒ ॥ १०.६८.९