तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम् । प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोज॑: प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इन्द्र ॥
tāṁ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām | prāvo devām̐ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra ||
ताम् । सु । ते॒ । की॒र्तिम् । म॒घ॒ऽव॒न् । म॒हि॒ऽत्वा । यत् । त्वा॒ । भी॒ते इति॑ । रोद॑सी॒ इति॑ । अह्व॑येताम् । प्र । आ॒वः॒ । दे॒वान् । आ । अ॒ति॒रः॒ । दास॑म् । ओजः॑ । प्र॒ऽजायै॑ । त्व॒स्यै॒ । यत् । अशि॑क्षः । इन्द्र ॥ १०.५४.१
BRAHMAMUNI
इस सूक्त में ‘इन्द्र’ शब्द से परमात्मा गृहीत है। उसका स्वाभाविक नाम ‘ओ३म्’ ज्योतिर्पिण्डों को ज्योति प्रदान करता है। मानव-कल्याणार्थ वेदज्ञान का उपदेश देता है, यह प्रमुख विषय है।
HARISHARAN SIDDHANTALANKAR
दिव्यता का प्रादुर्भाव
BRAHMAMUNI
अत्र सूक्ते ‘इन्द्र’शब्देन परमात्मा गृह्यते। तस्य स्वाभाविकनाम ‘ओ३म्’ प्रत्येकज्योतिष्मति पिण्डे ज्योतिर्ददाति मानवकल्याणाय वेदज्ञानमुपदिशति, इति प्रमुखविषयाः।
