म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः । विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एक॑: ॥
mahat tad ulbaṁ sthaviraṁ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ | viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ ||
म॒हत् । तत् । उल्ब॑म् । स्थवि॑रम् । तत् । आ॒सी॒त् । येन॑ । आऽवि॑ष्टितः । प्र॒ऽवि॒वेशि॑थ । अ॒पः । विश्वाः॑ । अ॒प॒श्य॒त् । ब॒हु॒धा । ते॒ । अ॒ग्ने॒ । जात॑ऽवेदः । त॒न्वः॑ । दे॒वः । एकः॑ ॥ १०.५१.१
BRAHMAMUNI
इस सूक्त में ‘अग्नि’ शब्द से आत्मा और विद्युदग्नि गृहीत हैं। आत्मा का जन्मधारण, अन्नपान, कल्याण और मोक्ष को देनेवाला विषयग्रहण तथा विद्युत् का ऐसा प्रयोग जिससे सुव्यवस्थित यन्त्रचालन हो, आदि विषय हैं।
HARISHARAN SIDDHANTALANKAR
'योगमाया-समावृतः' [नाहं प्रकाशः सर्वस्य]
BRAHMAMUNI
अत्र सूक्ते ‘अग्नि’शब्देन आत्मा विद्युदग्निश्च गृह्येते । तत्रात्मनो जन्मधारणमन्नपानं च विषयग्रहणं चैव कार्यं यथा कल्याणं मोक्षं च भवेत्। विद्युतः प्रयोगश्चैवं कर्त्तव्यो यथा यन्त्रचालनं सुव्यवस्थितं भवेदेवमादयो विषयाः सन्ति।
