Go To Mantra

ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धय॑न्ती । विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्त॑: ॥

English Transliteration

ṛtāyinī māyinī saṁ dadhāte mitvā śiśuṁ jajñatur vardhayantī | viśvasya nābhiṁ carato dhruvasya kaveś cit tantum manasā viyantaḥ ||

Pad Path

ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी॑ । मा॒यिनी॒ इति॑ । सम् । द॒धा॒ते॒ इति॑ । मि॒त्वा । शिशु॑म् । ज॒ज्ञ॒तुः॒ । व॒र्धय॑न्ती॒ इति॑ । विश्व॑स्य । नाभि॑म् । चर॑तः । ध्रु॒वस्य॑ । क॒वेः । चि॒त् । तन्तु॑म् । मन॑सा । वि॒ऽयन्तः॑ ॥ १०.५.३

Rigveda » Mandal:10» Sukta:5» Mantra:3 | Ashtak:7» Adhyay:5» Varga:33» Mantra:3 | Mandal:10» Anuvak:1» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (ऋतायिनी) सन्तान बीजरूप जल-सम्पन्न (मायिनी) सन्तानार्थ बुद्धिवाले माता-पिता (मित्वा) अपने आहार-व्यवहारों को क्रमशः समुचित माप से सेवन करके (सन्दधाते) गर्भ को संस्थापित करते हैं- गर्भसन्धान करते हैं, पुनः (शिशुं जज्ञतुः) जैसे बालक को जनते हैं (वर्धयन्ती) उसे बढ़ाते हैं, ऐसे ही (विश्वस्य चरतः ध्रुवस्य नाभिम्) समस्त गतिशील शुक्रादिमय द्युलोक तथा पृथिवीलोक के मध्य में (तन्तुं चित्) पुत्रसमान अग्नि को (कवेः) कवि-विद्वान् जन (मनसा वियन्तः) मन से विशेष जानते हुए सेवन करते हैं ॥३॥
Connotation: - द्युलोक और पृथिवीलोक का पुत्ररूप अग्नि है, उसे विद्वान् सुरक्षित करते हैं-लाभ लेते हैं, पुत्रोत्पत्ति चाहनेवाले माता-पिता उचित आहार-व्यवहार द्वारा अपने अन्दर सन्तति बीज रस को बनावें और अपनी प्रबल शुभ भावना से गर्भाधान करें, तो उत्तम पुत्र की प्राप्ति होती है ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (ऋतायिनी) ऋतायिन्यौ-ऋतमुदकं सन्तानबीजमेतः प्राप्नुत इति ते। णिनिः प्रत्ययः, स्त्रियामृतायिनी “अन्येषामपि दृश्यते” [अष्टा० ६।३।१३] दीर्घः, “ऋतम्-उदकनाम” [निघ० १।१२] (मायिनी) मायिन्यौ सन्ताननिर्माणे प्रज्ञावन्त्यौ-मातापितरौ (मित्वा) शनैः शनैः स्वाहारव्यवहारौ सुपरिमितौ कृत्वा (सन्दधाते) यथा गर्भं सन्धत्तः (शिशुं-जज्ञतुः) प्रशंसनीयं पुत्रं जनितवत्यौ (वर्धयन्ती) वर्धयन्त्यौ तिष्ठतः, एवं (चरतः-ध्रुवस्य विश्वस्य नाभिम्) द्युलोकस्य गतिं कुर्वतः शुक्रादिकस्य तथा पृथिवीलोकस्य “एषां लोकानामयमेव” ध्रुवमियं पृथिवी [श० ।१।२।४] संसारस्य नाभिभूतं “मध्यं वै नाभिः” [श० १।१।२।३] (तन्तुं चित्) सर्वज्ञं प्रजारूपमग्निम् “प्रजा वै तन्तुः” [ऐ० ३।११] (कवेः-मनसा वियन्तः) कवयः ‘व्यत्ययेन’ मनोभावेन विशेषतया प्राप्नुवन्तः सेवन्ते ॥३॥