Go To Mantra

विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ । स आ य॑जस्व नृ॒वती॒रनु॒ क्षा स्पा॒र्हा इष॑: क्षु॒मती॑र्वि॒श्वज॑न्याः ॥

English Transliteration

viśveṣāṁ hy adhvarāṇām anīkaṁ citraṁ ketuṁ janitā tvā jajāna | sa ā yajasva nṛvatīr anu kṣā spārhā iṣaḥ kṣumatīr viśvajanyāḥ ||

Pad Path

विश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् । चि॒त्रम् । के॒तुम् । जनि॑ता । त्वा॒ । ज॒जान॑ । सः । आ । य॒ज॒स्व॒ । नृ॒ऽवतीः॑ । अनु॑ । क्षाः । स्पा॒र्हाः । इषः॑ । क्षु॒ऽमतीः॑ । वि॒स्वऽज॑न्याः ॥ १०.२.६

Rigveda » Mandal:10» Sukta:2» Mantra:6 | Ashtak:7» Adhyay:5» Varga:30» Mantra:6 | Mandal:10» Anuvak:1» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (विश्वेषाम्-अध्वराणाम्) समस्त मार्ग में रमण करनेवाले या मार्गवाले ग्रह-तारों के (अनीकम्) मुख-प्रमुख सेनाओं के सेनानी के समान (चित्रम्) दर्शनीय (केतुम्) दर्शक (त्वा) तुझ सूर्य को (जनिता जजान) उत्पादक परमात्मा ने उत्पन्न किया है, (सः) वह तू (नृवतीः क्षाः) मनुष्यादी प्रजावाली पृथिवियों, तथा (स्पार्हाः क्षुमतीः-विश्वजन्याः-इषः-यजस्व) चाहने योग्य, कमनीय अन्नवाली और सबको उत्पन्न करनेवाली या सब उत्पन्न होनेवाले प्राणियों के योग्य वर्षा से संयुक्त करा-प्राप्त करा ॥६॥
Connotation: - द्युमण्डल में मार्गवाले य मार्ग में चलनेवाले ग्रहों का नेता तथा दर्शक सूर्य है और उसका परमात्मा उत्पादक है, सूर्य स्वतः नहीं। प्राणियोंवाली पृथिवियों और कमनीय अन्न उत्पन्न करनेवाला सबको योग्य वर्षाओं का प्राप्त करानेवाला सूर्य है। विद्यासूर्य विद्वान् को परमात्मा बनाता है। वह विद्यासूर्य विद्वान् राष्ट्रभूमि को सुख शान्ति व जीवनरक्षा की अमृतवर्षा से सिञ्चित करे ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (विश्वेषाम्-अध्वराणां हि) सर्वेषां खल्वध्वानि रममाणानाम्, अध्वनि रमते-इति ‘डः’ प्रत्ययः “सप्तम्यां जनेर्डः” [अष्टा० ३।२।९७] “अन्येभ्योऽपि दृश्यते” [वा० अष्टा० ३।२।१०१] यद्वा-अध्ववतां ग्रहाणाम्-अध्वशब्दात् र प्रत्ययो मत्वर्थीयश्छान्दसः (अनीकम्) मुखं प्रमुखं यथा सेनायाः सेनानीरनीकं भवति “सेनायाः सेनानीरनीकम्” [श० ५।३।८।१] (चित्रम्) चायनीयम्-दर्शनीयम् (केतुम्) दर्शकं सूर्यम् (त्वा जनिता जजान) त्वां सूर्यं जनयिता परमात्मा उत्पादितवान् (सः-आ) त्वं सूर्यः (नृवतीः क्षाः) मनुष्यादिप्रजावतीः “प्रजा वै नरः” [ऐ० २।४] पृथिवीः, तथा (स्पार्हाः क्षुमतीः-विश्वजन्याः-इषः-यजस्व) स्पृहणीया अन्नवतीः सर्वप्राणिजननयोग्याः-वृष्टीः “वृष्ट्यै तदाह यदाहेषे” [श० १४।२।२।१७] सङ्गमय ॥६॥