ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् । ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् ॥
ṛṣabham mā samānānāṁ sapatnānāṁ viṣāsahim | hantāraṁ śatrūṇāṁ kṛdhi virājaṁ gopatiṁ gavām ||
ऋ॒ष॒भम् । मा॒ । स॒मा॒नाना॑म् । स॒ऽपत्ना॑नाम् । वि॒ऽस॒स॒हिम् । ह॒न्तार॑म् । शत्रू॑णाम् । कृ॒धि॒ । वि॒ऽराज॑म् । गोऽप॑तिम् । गवा॑म् ॥ १०.१६६.१
BRAHMAMUNI
इस सूक्त में राजा सैन्य शरीर मन आत्मबलों से युक्त हो, राष्ट्रद्रोही जनों की वृत्तिपरम्परा से प्राप्त क्षेम का राष्ट्रियकरण हो, विशेष दण्ड देकर भी प्रजा का रक्षण करना चाहिए, इत्यादि विषय हैं।
HARISHARAN SIDDHANTALANKAR
गवां गोपति
BRAHMAMUNI
अत्र सूक्ते राजा सैन्यशरीरमनआत्मबलैर्युक्तः स्यात्, राष्ट्रविद्रोग्धृ-जनानां वृत्तेः परम्परातः क्षेमस्य स्वायत्तीकरणे विशिष्टदण्डप्रदानं च तेभ्यो दातव्यं प्रजारक्षणं च कार्यमित्येवं विषयाः सन्ति।
