Go To Mantra

स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति । त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभि॑: ॥

English Transliteration

sa in nu rāyaḥ subhṛtasya cākanan madaṁ yo asya raṁhyaṁ ciketati | tvāvṛdho maghavan dāśvadhvaro makṣū sa vājam bharate dhanā nṛbhiḥ ||

Pad Path

सः । इत् । नु । रा॒यः । सुऽभृ॑तस्य । चा॒क॒न॒त् । मद॑म् । यः । अ॒स्य॒ । रंह्य॑म् । चिके॑तति । त्वाऽवृ॑धः । म॒घ॒ऽव॒न् । दा॒शुऽअ॑ध्वरः । म॒क्षु । सः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ॥ १०.१४७.४

Rigveda » Mandal:10» Sukta:147» Mantra:4 | Ashtak:8» Adhyay:8» Varga:5» Mantra:4 | Mandal:10» Anuvak:11» Mantra:4


Reads times

BRAHMAMUNI

Word-Meaning: - (सः-इत्-नु) वह ही शीघ्र (सुभृतस्य रायः) उत्तम धारण किये हुए पुष्ट आनन्द धन को (चाकनत्) चाहता है-प्राप्त करता है (यः) जो (अस्य) इस परमात्मा के (रह्यं चिकेतति) प्राप्त करने योग्य स्वरूप को जानता है (मघवन्) हे ऐश्वर्यवन् परमात्मन् ! (त्वावृधः) तुझसे जो वृद्धि को प्राप्त हुआ (दाश्वध्वरः) दातव्य देने योग्य अहिंसनीय यज्ञ जिसका है, (सः) वह (नृभिः) अपने लेजानेवाले कर्मरूप साधनों से (मक्षु) शीघ्र (वाजं धना भरते) अमृतान्नभोगधनों को तथा लौकिक धनों को धारण करता है, प्राप्त करता है ॥४॥
Connotation: - जो परमात्मा के स्वरूप को जानता है, वह सुपुष्ट अन्न को प्राप्त करता है और जो दूसरों के लिए अभयदान देता है, वह अपने कर्मों द्वारा अमृतान्नभोग और लौकिक धन को प्राप्त करता है ॥४॥
Reads times

BRAHMAMUNI

Word-Meaning: - (सः-इत्-नु) स एव खलु शीघ्रं (सुभृतस्य रायः-मदम्) सुष्ठभृतं पुष्टं रायं हर्षमानन्दधनम् “द्वितीयार्थे षष्ठी व्यत्ययेन छान्दसी” (चाकनत्) कामयते-लभते (यः-अस्य रंह्यं चिकेतति) यः खलु ह्यस्य तव परमात्मनो रंह्यं गमयितुं प्रापयितुं योग्यं स्वरूपं जानाति “रंह्यः-गमयितुं योग्यः” [ऋ० २।१८।१ दयानन्दः] (मघवन्) हे ऐश्वर्यवन् परमात्मन् ! (त्वावृधः) त्वया यो वर्धितः-‘त्वया-उपपदात्-वृधुधातोरौणादिकः कः प्रत्ययो बाहुलकात्’ (दाश्वध्वरः) दातव्योऽहिंसायज्ञो यस्य सः “दाश्वध्वराय दाशुर्देयोऽध्वरोऽहिंसामयो यज्ञो येन तस्मै” [ऋ० ६।६८।३ दयानन्दः] दत्ताहिंसायज्ञो दयावान् जनो भवति (सः-नृभिः-मक्षु वाजं धना भरते) स्वकर्मनेतृभिः साधनैः शीघ्रममृतान्नभोगम् “अमृतोऽन्नं वै वाजः” [जै० २।१९३] धनानि लौकिकानि च धारयति प्राप्नोति ॥४॥