अ॒यं हि ते॒ अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते । दक्षो॑ वि॒श्वायु॑र्वे॒धसे॑ ॥
ayaṁ hi te amartya indur atyo na patyate | dakṣo viśvāyur vedhase ||
अ॒यम् । हि । ते॒ । अम॑र्त्यः । इन्दुः॑ । अत्यः॑ । न । पत्य॑ते । दक्षः॑ । वि॒श्वऽआ॑युः । वे॒धसे॑ ॥ १०.१४४.१
BRAHMAMUNI
इस सूक्त में वीर्यरक्षा के उपाय और लाभ कहे गये हैं, मृत्युभय से बचाता है, यह आयुवर्धक, परमात्मा के साथ समागम करानेवाला है, रक्षणप्रकार शिवसङ्कल्प है, इत्यादि विषय हैं।
HARISHARAN SIDDHANTALANKAR
जीवन की पूर्णता का साधन 'सोम'
BRAHMAMUNI
अत्र सूक्ते वीर्यरक्षणस्य प्रकाराः लाभाश्चोपदिश्यन्ते मृत्युभयात् त्राता वीर्यपदार्थः, आयुर्वर्धकः परमात्मना सह समागमस्य हेतुरित्येवमादयो लाभा उच्यन्ते रक्षाप्रकारश्च शिवसङ्कल्प इत्यपि वर्ण्यते।
