ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम । मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
mamāgne varco vihaveṣv astu vayaṁ tvendhānās tanvam puṣema | mahyaṁ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema ||
मम॑ । अ॒ग्ने॒ । वर्चः॑ । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑नाः । त॒न्व॑म् । पु॒षे॒म॒ । मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः । त्वया॑ । अधि॑ऽअक्षेण । पृत॑नाः । ज॒ये॒म॒ ॥ १०.१२८.१
BRAHMAMUNI
इस सूक्त में सेनाध्यक्ष शत्रुओं का नाशक राष्ट्र में भ्रमण करके शत्रुओं को प्राप्त कर दण्ड दे, विद्वान् जन राजा को प्रोत्साहित करें, सूर्यादि धारकों का धारक परमात्मा उपास्य है, आदि विषय हैं।
HARISHARAN SIDDHANTALANKAR
चतुर्दिग्-विजय
BRAHMAMUNI
अत्र सूक्ते सेनाध्यक्षः शत्रूणां नाशकः राष्ट्रे भ्रमणं कृत्वा दुष्टान् प्राप्य दण्डयेत्, विद्वांसो राजानं प्रोत्साहयेयुः, परमात्मा सर्वसूर्यादीनां धारकाणामपि धारकस्तस्योपासना कर्त्तव्येत्येवमादयो विषयाः सन्ति।
