इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् । असो॑ हव्य॒वाळु॒त न॑: पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥
imaṁ no agna upa yajñam ehi pañcayāmaṁ trivṛtaṁ saptatantum | aso havyavāḻ uta naḥ purogā jyog eva dīrghaṁ tama āśayiṣṭhāḥ ||
इ॒मम् । नः॒ । अ॒ग्ने॒ । उप॑ । य॒ज्ञम् । आ । इ॒हि॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् । असः॑ । ह॒व्य॒ऽवाट् । उ॒त । नः॒ । पु॒रः॒ऽगाः । ज्योक् । ए॒व । दी॒र्घम् । तमः॑ । आ । अ॒श॒यि॒ष्ठाः॒ ॥ १०.१२४.१
BRAHMAMUNI
इस सूक्त में शरीररूप अन्धकार में बहुकाल से वसता हुआ आत्मा मुक्ति की आकाङ्क्षा करता है, जहाँ स्वराज्य स्वतन्त्रता है, जहाँ इन्द्रियगण साङ्कल्पिक और शरीर साङ्कल्पिक हैं।
HARISHARAN SIDDHANTALANKAR
पञ्चयाम जीवनयज्ञ
BRAHMAMUNI
अत्र सूक्ते शरीररूपेऽन्धकारे बहुकालाद् वसन्नात्मा मुक्तिं काङ्क्षति तत्र सत्यकामाः प्रेरयन्ति यदितोऽन्यत्र गन्तव्यं यत्र स्वराज्यं स्वातन्त्र्यं भवेत् साङ्कल्पिकेन्द्रियवृन्दं शरीरमपि साङ्कल्पिकमिति मोक्षे प्रार्थ्यते।
