Go To Mantra

वज्रे॑ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑वस्य॒ शूशु॑वानस्य मा॒याः । वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घ॒न्थाथा॑भवो मघवन्बा॒ह्वो॑जाः ॥

English Transliteration

vajreṇa hi vṛtrahā vṛtram astar adevasya śūśuvānasya māyāḥ | vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ ||

Pad Path

वज्रे॑ण । हि । वृ॒त्र॒ऽहा । वृ॒त्रम् । अस्तः॑ । अदे॑वस्य । शूशु॑वानस्य । मा॒याः । वि । धृ॒ष्णो॒ इति॑ । अत्र॑ । धृ॒ष॒ता । ज॒घ॒न्थ॒ । अथ॑ । अ॒भ॒वः॒ । म॒घ॒ऽव॒न् । बा॒ह्वुऽओ॑जाः ॥ १०.१११.६

Rigveda » Mandal:10» Sukta:111» Mantra:6 | Ashtak:8» Adhyay:6» Varga:11» Mantra:1 | Mandal:10» Anuvak:9» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (मघवन्) हे ऐश्वर्यवन् परमात्मन् ! (वृत्रहा) आवरक अज्ञानादि का हनन करनेवाला है (वृत्रम्) उस आवरक अज्ञानादि बाधक को (वज्रेण) नाशक साधन से (अस्तः) नष्ट कर (धृष्णो) हे धर्षणशील ! (अथ) तथा (बाह्वोजा) बाहुओं में ओजवाला होता हुआ जैसा (अभवः) हो (अत्र) यहाँ (शूशुवानस्य) बढ़े हुए (अदेवस्य) प्रकाशरहित की (मायाः) अन्धकारमय कुटिल क्रियाओं को (धृषता) धर्षणसामर्थ्य से (वि जघन्थ) विशेषरूप से नष्ट कर ॥६॥
Connotation: - परमात्मा अज्ञानादि आवरक बाधक को नष्ट करता है, बढ़े हुए पापी के कुटिल व्यवहारों को भी नष्ट करता है ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (मघवन्) हे ऐश्वर्यवन् परमात्मन् ! (वृत्रहा) त्वमावरकस्याज्ञान-मादिकस्य हन्ता सन् (वृत्रं-वज्रेण वि-अस्तः) तमावरकमज्ञानमादिकं बाधकं वज्रेणास्तृणाः-नाशय “स्तृणाति वधकर्मा” [निघ० २।१९] “सामान्ये काले लङ्” “बहुलं छन्दसि” [अष्टा० २।४।७३] विकरणस्य लुक् सिपि गुणश्च (धृष्णो) हे धर्षणशील ! (अथ बाह्वोजाः) अथ च बाह्वोरोजो यस्य तथाभूतो भव (अत्र शूशुवानस्य-अदेवस्य-मायाः) बहुवर्धमानस्य “शूशुवानः-भृशं वर्धमानः” [ऋ० ७।२०।२ दयानन्दः] प्रकाशरहितस्य मायाः कुटिलक्रियाः “मायाः कपटादियुक्ताः क्रियाः” [ऋ० १।११७।३ दयानन्दः] (धृषता वि जघन्थ) धर्षकेण सामर्थ्येन विशेषेण हंसि ॥६॥