स॒ध्रीची॒: सिन्धु॑मुश॒तीरि॑वायन्त्स॒नाज्जा॒र आ॑रि॒तः पू॒र्भिदा॑साम् । अस्त॒मा ते॒ पार्थि॑वा॒ वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इन्द्र पू॒र्वीः ॥
sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām | astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ ||
स॒ध्रीचीः॑ । सिन्धु॑म् । उ॒श॒तीःऽइ॑व । आ॒य॒न् । स॒नात् । जा॒रः । आ॒रि॒तः । पूः॒ऽभित् । आ॒सा॒म् । अस्त॑म् । आ । ते॒ । पार्थि॑वा । वसू॑नि । अ॒स्मे इति॑ । ज॒ग्मुः॒ । सू॒नृताः॑ । इ॒न्द्र॒ । पू॒र्वीः ॥ १०.१११.१०