मनी॑षिण॒: प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तय॒: सन्ति॑ नृ॒णाम् । इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभि॒: स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥
manīṣiṇaḥ pra bharadhvam manīṣāṁ yathā-yathā matayaḥ santi nṛṇām | indraṁ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ ||
मनी॑षिणः । प्र । भ॒र॒ध्व॒म् । म॒नी॒षाम् । यथा॑ऽयथा । म॒तयः॑ । सन्ति॑ । नृ॒णाम् । इन्द्र॑म् । स॒त्यैः । आ । ई॒र॒या॒म॒ । कृ॒तेभिः॑ । सः । हि । वी॒रः । गि॒र्व॒ण॒स्युः । विदा॑नः ॥ १०.१११.१
BRAHMAMUNI
इस सूक्त में परमात्मा वेद और ब्रह्माण्ड का रचयिता सर्वत्र व्यापक अज्ञाननाशक स्तुति करनेवालों को मोक्ष में प्रेरक उनके दोषों का निवारक है इत्यादि विषय हैं।
HARISHARAN SIDDHANTALANKAR
मनीषा का प्रभरण
BRAHMAMUNI
सूक्तेऽस्मिन् परमात्मा वेदस्य ब्रह्माण्डस्य च रचयिता सर्वत्र व्यापकोऽज्ञाननाशकः स्तुतिकर्तॄन् मोक्षे प्रेरयिता तेषां दोषनिवारकश्चेत्येवमादयो विषयाः सन्ति।
