इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे । दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥
indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe | devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṁ vṛṇīmahe ||
इन्द्र॑ । दृह्य॑ । म॒घ॒ऽव॒न् । त्वाऽव॑त् । इत् । भु॒जे । इ॒ह । स्तु॒तः । सु॒त॒ऽपाः । बो॒धि॒ । नः॒ । वृ॒धे । दे॒वेभिः॑ । नः॒ । स॒वि॒ता । प्र । अ॒व॒तु॒ । श्रु॒तम् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥ १०.१००.१
BRAHMAMUNI
इस सूक्त में परमात्मा स्तुतिकर्त्ताओं के आयु, सम्पत्ति, श्रेष्ठ गुणों को बढ़ाता है, पाप दूर करता है, मन को प्रसन्न करता है, इत्यादि विषय हैं।
HARISHARAN SIDDHANTALANKAR
दृढ़ता
BRAHMAMUNI
अत्र सूक्ते परमात्मा स्तोतॄणामायुः सम्पत्तिश्रेष्ठगुणान्वर्धयति पापं दूरी करोति मनः प्रसादयतीत्यादि विषयाः सन्ति।
