अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ । ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥
ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ | tābhir yāti svayuktibhiḥ ||
अयु॑क्त । स॒प्त । शु॒न्ध्युवः॑ । सूरः॑ । रथ॑स्य । न॒प्त्यः॑ । ताभिः॑ । या॒ति॒ । स्वयु॑क्तिभिः॥
SWAMI DAYANAND SARSWATI
फिर वह कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
सूर्य चङ्क्रमण
SWAMI DAYANAND SARSWATI
(अयुक्त) योजयति (सप्त) पूर्वोक्ताः (शुन्ध्युवः) पवित्रहेतवो रश्मयोऽश्वाः। अत्र तन्वादीनां छन्दसि बहुलमुपसंख्यानम्। अ० ६।४।७७। अनेन वार्त्तिकेनोवङादेशः। (सूरः) यः सरति प्राप्नोति स सूर्यः (रथस्य) रमणाधिकरणस्य जगतो मध्ये (नप्तः) पातेन नाशेन रहिताः। अत्र सुपां सुलुग् इति जसः स्थाने सुः। नञुपपदात् पतधातोरिक्कृषादिभ्यः। अ० *३।१।८। इतीक्। तनिपत्योश्छन्दसि अ० ६।४।९९। अनेनोपधालोपः। इकारस्याकारादेशश्च। (ताभिः) व्याप्तिभिः (याति) प्राप्नोति (स्वयुक्तिभिः) स्वा युक्तयो योजनानि यासु ताभिः ॥९॥ #[अ० ३।३।१०८ इति सूत्र स्थवार्तिकेनेक् प्र०। सं०।]
पुनः सा #कीदृशीत्युपदिश्यते। *[हिन्दी लेखानुसार सः कीदृश इत्यु०। सं०]
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
O God, the Divine Sun, as the sun is attained through the purifying seven kinds of rays, so Thou art attained or known by Thy wonderful designs with which thou control lest the Universe.
MATA SAVITA JOSHI
N/A
