अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥
adṛśram asya ketavo vi raśmayo janām̐ anu | bhrājanto agnayo yathā ||
अदृ॑श्रम् । अ॒स्य॒ । के॒तवः॑ । वि । र॒श्मयः॑ । जना॑न् । अनु॑ । भ्राज॑न्तः । अ॒ग्नयः॑ । य॒था॒॥
SWAMI DAYANAND SARSWATI
फिर वे कैसे हों, इस विषय का उपदेश अगले मंत्र में किया है।
SWAMI DAYANAND SARSWATI
(अदृश्रम्) प्रेक्षेयम्। अत्र लिङर्थे लङ् शपो लुक् रुडागमश्च। (अस्य) सूर्य्यस्य (केतवः) ज्ञापकाः (वि) विशेषार्थे (रश्मयः) किरणाः (जनान्) मनुष्यादीन्प्राणिनः (अनु) पश्चात् (भ्राजन्तः) प्रकाशमानाः (अग्नयः) प्रज्वलिता वह्नयः (यथा) येन प्रकारेण ॥३॥
पुनस्ते कीदृशा भवेयुरित्युपदिश्यते।
MATA SAVITA JOSHI
N/A