अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू॑तिभिः । अ॒यं सोमः॑ सुदानव॒स्तं पा॑त ति॒रोअ॑ह्न्यम् ॥
arvāñcaṁ daivyaṁ janam agne yakṣva sahūtibhiḥ | ayaṁ somaḥ sudānavas tam pāta tiroahnyam ||
अ॒र्वाञ्च॑म् । दैव्य॑म् । जन॑म् । अग्ने॑ । यक्ष्व॑ । सहू॑तिभिः । अ॒यम् । सोमः॑ । सु॒दा॒न॒वः॒ । तम् । पा॒त॒ । ति॒रःअ॑ह्न्यम्॥
SWAMI DAYANAND SARSWATI
फिर भी उसी विषय का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
देव - सङ्ग
SWAMI DAYANAND SARSWATI
(अर्वाश्चम्) योऽर्वतो वेगादिगुणानश्वानंचति प्राप्नोति तम् (दैव्यम्) दिव्यगुणेष भवम् (जनम्) पुरुषार्थेषु प्रादुर्भूतम् (अग्ने) विद्वन् (यक्ष्व) संगच्छस्व (सहूतिभिः) समाना हूतयः। आह्वानानि च सहूतयस्ताभिः (अयम्) प्रत्यक्षः (सोमः) विद्यैश्वर्ययुक्तः (सुदानवः) शोभनानि दानानि येषां विदुषां तत्सम्बुद्धौ (तम्) (पात) रक्षत (तिरोअह्न्यम्) अहनि भवमह्न्यम्। तिरस्कृतमाच्छादितमह्न्यम् येन तम्। अत्र प्रकृत्यान्तः पादमव्यपरे। इति प्रकृतिभावः ॥१०॥
पुनस्तमेव विषयमाह।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
The same subject is continued.
O bounteous learned persons, with conjoint invocations or invitations, protect that man who has speedy horses, is possessed of divine virtues, is industrious in discharging his duties faithfully. You should honor such persons like a man endowed with the wealth of knowledge.
MATA SAVITA JOSHI
N/A
