त्वं तस्य॑ द्वया॒विनो॒ऽघशं॑सस्य॒ कस्य॑ चित् । प॒दाभि ति॑ष्ठ॒ तपु॑षिम् ॥
tvaṁ tasya dvayāvino ghaśaṁsasya kasya cit | padābhi tiṣṭha tapuṣim ||
त्वम् । तस्य॑ । द्व॒या॒विनः॑ । अ॒घशं॑सस्य । कस्य॑ । चि॒त् । प॒दा । अ॒भि । ति॒ष्ठ॒ । तपु॑षिम्॥
SWAMI DAYANAND SARSWATI
फिर इन पूर्वोक्त चोरों की क्या गति करनी चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
द्वयावी - अघशंस
SWAMI DAYANAND SARSWATI
(त्वम्) पूर्वोक्तः पूषा (तस्य) पूर्वोक्तस्य वक्ष्यमाणस्य च (द्वयाविनः) प्रत्यक्षाप्रत्यक्षयोः परपदार्थापहर्तुः (अघशंसस्य) स्तेनस्य। अघशंस इति स्तेननामसु पठितम्। निघं० ३।२४। (कस्य) किंत्वमितिवदतः (चित्) अपि (पदा) पादाक्रमणेन (अभितिष्ठ) स्थिरो भव (तपुषिम्) श्रेष्ठानां संतापकारिकां सेनाम् ॥४॥
पुनरेतेषां चोराणां का गतिः कार्य्येत्युपदिश्यते।
DR. TULSI RAM
MATA SAVITA JOSHI
N/A
