स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं॑ तो॒कमु॒त त्मना॑ । अच्छा॑ गच्छ॒त्यस्तृ॑तः ॥
sa ratnam martyo vasu viśvaṁ tokam uta tmanā | acchā gacchaty astṛtaḥ ||
सः । रत्न॑म् । मर्त्यः॑ । वसु॑ । विश्व॑म् । तो॒कम् । उ॒त । त्मना॑ । अच्छ॑ । ग॒च्छ॒ति॒ । अस्तृ॑तः॥
SWAMI DAYANAND SARSWATI
फिर वह रक्षा को प्राप्त होकर किसको प्राप्त होता है, इस विषय का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
आत्मसदृश सन्तान
SWAMI DAYANAND SARSWATI
(सः) वक्ष्यमाणः (रत्नम्) रमन्ते जनानां मनांसि यस्मिंस्तत् (मर्त्यः) मनुष्यः (वसु) उत्तमं द्रव्यम् (विश्वम्) सर्वम् (तोकम्) उत्तमगुणवदपत्यम्। तोकमित्यपत्यना०। निघं० २।२। (उत) अपि (त्मना) आत्मना मनसा प्राणेन वा। अत्र मंत्रेष्वाङ्यादेरात्मनः। अ० ६।४।१४१। अनेनास्याकारलोपः। (अच्छ) सम्यक् प्रकारेण। अत्र निपातस्य च इति दीर्घः। (गच्छति) प्राप्नोति (अस्तृतः) अहिंसितस्सन् ॥६॥
पुनः स संरक्षितः सन् मनुष्यः किं प्राप्नोतीत्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
That mortal, protected by you and not harmed, gains pleasing wealth. He also gets noble off-spring by his power.
MATA SAVITA JOSHI
N/A
