यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था । प्र वः॒ स धी॒तये॑ नशत् ॥
yaṁ yajñaṁ nayathā nara ādityā ṛjunā pathā | pra vaḥ sa dhītaye naśat ||
यम् । य॒ज्ञम् । नय॑थ । न॒रः॒ । आदि॑त्याः । ऋ॒जुना॑ । प॒था । प्र । वः॒ । सः । धी॒तये॑ । न॒श॒त्॥
SWAMI DAYANAND SARSWATI
फिर ये किस की रक्षा कर किस को प्राप्त होते हैं, इस विषय का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
परोपकार से स्वोपकार
SWAMI DAYANAND SARSWATI
(यम्) वक्ष्यमाणम् (यज्ञम्) शत्रुनाशकं श्रेष्ठपालनाख्यं राजव्यवहारम् (नयथ) प्राप्नुथ। अत्रान्येषामपि इति दीर्घः। (नरः) नयन्ति सत्यं व्यवहारं प्राप्नुवन्त्यसत्यं च दूरीकुर्वंति तत्सम्बुद्धौ (आदित्याः) पूर्वोक्ता वरुणादयो विद्वांसः (ऋजुना) सरलेन शुद्धेन (पथा) न्यायमार्गेण (प्र) प्रकृष्टार्थे (वः) युष्माकम् (सः) यज्ञः (धीतये) धीयन्ते प्राप्यन्ते सुखान्यनया क्रियया सा (नशत्) नाशं प्राप्नुयात्। अत्र व्यत्ययेन शप् लेट् प्रयोगश्च ॥५॥
पुनरेते कं संरक्ष्य किं प्राप्नुयुरित्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
What should they obtain by preserving is taught in the fifth Mantra.
O highly learned guides, the yajna in the form of destruction of enemies and preservation of the righteous you lead by a straight just path, let that lead to happiness and may never end.
MATA SAVITA JOSHI
N/A
