सु॒गः पन्था॑ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते । नात्रा॑वखा॒दो अ॑स्ति वः ॥
sugaḥ panthā anṛkṣara ādityāsa ṛtaṁ yate | nātrāvakhādo asti vaḥ ||
सु॒गः । पन्था॑ । अ॒नृ॒क्ष॒रः । आदि॑त्यासः । ऋ॒तम् । य॒ते । न । अत्र॑ । अ॒व॒खा॒दः । अ॒स्ति॒ । वः॒॥
SWAMI DAYANAND SARSWATI
फिर वे क्या सिद्ध करें, इस विषय का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
अनृक्षर पथ
SWAMI DAYANAND SARSWATI
(सुगः) सुखेन गच्छन्ति यस्मिन् सः (पंथाः) जलस्थलान्तरिक्षगमनार्थः शिक्षाविद्याधर्मन्यायप्राप्त्यर्थश्चमार्गः (अनृक्षरः) कंटकगर्त्तादिदोषरहितः सेतुमार्जनादिभिः सह वर्त्तमानः सरलः। चोरदस्युकुशिक्षाऽविद्याऽधर्माऽऽचरणरहितः (आदित्यासः) सुसेवितेनाष्टचत्वारिंशद्वर्षब्रह्मचर्येण शरीरात्मबलसाहित्येनाऽऽदित्यवत्प्रकाशिता अविनाशिधर्मविज्ञाना विद्वांसः। आदित्या इति पदना०। निघं० ५।६। अनेन ज्ञानवत्त्वं सुखप्रापकत्त्वं च गृह्यते। (ऋतम्) ब्रह्म सत्यं यज्ञं वा (यते) प्रयतमानाय (न) निषेधार्थे (अत्र) विद्वत्प्रचारिते रक्षिते व्यवहारे (अवखादः) विखादो भयम् (अस्ति) भवति (वः) युष्माकम् ॥४॥
पुनस्ते किं साधयेयुरित्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
What should they accomplish is taught in the fourth Mantra.
Where Adityas (learned persons who have observed Brahmacharya up to the age of 48 or more ) are the protectors and where the path has been made thornless (externally by which men can go to the land, water and sky and internally the path which leads to education, knowledge, Dharma ( Righteousness) and justice and free from the conduct of thieves, robbers, bad education and unrighteousness) on that and for the person that tries to attain God, Truth and Yajna, there is no fear in the dealing, protected and preached by the enlightened.
MATA SAVITA JOSHI
N/A
