उप॑ क्ष॒त्रं पृ॑ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे । नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे॑ अस्ति व॒ज्रिणः॑ ॥
upa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṁ dadhe | nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ ||
उप॑ । क्ष॒त्रम् । पृ॒ञ्ची॒त । हन्ति॑ । राज॑भिः । भ॒ये । चि॒त् । सु॒क्षि॒तिम् । द॒धे॒ । न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । म॒हा॒ध॒ने । न । अर्भे॑ । अ॒स्ति॒ । व॒ज्रिणः॑॥
SWAMI DAYANAND SARSWATI
ऐसे विद्वान् का कैसा राज्य होता है, इस विषय का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
ब्रह्म का क्षत्र से सम्पर्क
SWAMI DAYANAND SARSWATI
(उप) सामीप्ये (क्षत्रम्) राज्यम् (पृञ्चीत) सम्बध्नीत (हन्ति) नाशयति (राजभिः) राजपूतैः सह (भये) बिभेति यस्मात्तस्मिन् (चित्) अपि (सुक्षिति) शोभना क्षितिर्भूमिर्यस्मिन् व्यवहारे तम्। अत्र लोपस्त आत्मनेपदेषु। इति त लोपः। (न) निषेधार्थे (अस्य) पूर्वोक्तलक्षणाऽन्वितस्य सर्वसभाध्यक्षस्य (वर्त्ता) विपरिवर्तयिता। अत्र वृणोतेस्तृ च्र छन्दस्युभयथा इति सार्वधातुकत्वादिडभावः। (न) निषेधार्थे (तरुता) संप्लवनकर्त्ता। अत्र ग्रसित०। अ० ७।२।२४। इति निपातनम्। (महाधने) पुष्कलधनप्रापके संग्रामे (अर्भे) अल्पेयुद्धे (अस्ति) भवति (वज्रिणः) बलिनः। वज्रो वै वीर्यम्। शत० ७।४।२।२४। ॥८॥
एतल्लक्षणस्य विदुषः कीदृशं राज्यं भवतीत्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
How is the Government of such a learned person is taught in the 8th Mantra.
Such a highly learned President of the Assembly or of the Council of Ministers, concentrates his strength and amplifies his lordly might with the aid of brave heroes shining with splendor; he slays his foes, being himself very mighty. In greater or lesser fight, none checks him, none subdues as he is the wielder of the thunderbolt. Even amid alarms, he remains secure.
MATA SAVITA JOSHI
N/A
