स्थि॒रा वः॑ स॒न्त्वायु॑धा परा॒णुदे॑ वी॒ळू उ॒त प्र॑ति॒ष्कभे॑ । यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी॑यसी॒ मा मर्त्य॑स्य मा॒यिनः॑ ॥
sthirā vaḥ santv āyudhā parāṇude vīḻū uta pratiṣkabhe | yuṣmākam astu taviṣī panīyasī mā martyasya māyinaḥ ||
स्थि॒रा । वः॒ । स॒न्तु॒ । आयु॑धा । प॒रा॒नुदे॑ । वी॒ळु । उ॒त । प्र॒ति॒स्कभे॑ । यु॒ष्माक॑म् । अ॒स्तु॒ । तवि॑षी । पनी॑यसी । मा । मर्त्य॑स्य । मा॒यिनः॑॥
SWAMI DAYANAND SARSWATI
अब ईश्वर इनको उपदेश और आशीर्वाद देकर सबसे कहता है, कि तुमको क्या-२ सिद्ध करना चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
पराणुदे - प्रतिष्कभे [धकेलना - रोकना]
SWAMI DAYANAND SARSWATI
(स्थिरा) स्थिराणि चिरं स्थातुमर्हाणि। अत्र सर्वत्र शेश्छन्दसि इति लोपः। (वः) युष्माकम् (सन्तु) भवन्तु (आयुधा) आयुधान्याग्नेयानि धनुर्वाणभुसुंडीशतघ्न्यादीन्यस्त्रशस्त्राणि (पराणुदे) परान्नुदन्ति शत्रून्यस्मिन्युद्धे तस्मै। अत्र कृतो बहुलम् इत्यधिकरणे क्विप्। (वीळू) वीडूनि दृढानि बलकारीणि। अत्र ईषाअक्षादित्वात्प्रकृतिभावः। (उत) अप्येव (प्रतिष्कमे) प्रतिष्कंभते प्रतिबध्नाति शत्रून्येन कर्मणा तस्मै। अत्र सौत्रात् स्कम्भुधातोः पूर्ववत् क्विप्। (युष्माकम्) धार्मिकाणां वीराणाम् (अस्तु) भवतु (तविषी) प्रशस्तबलविद्यायुक्ता सेना। तवेर्णिद्वा। उ० १।४९। अनेन टिषच् प्रत्ययो णिद्वा। तविषीति बलनामसु पठितम्। निघं० २।९। (पनीयसी) अतिशयेन स्तोतुमर्हा व्यवहारसाधिका (मा) निषेधार्थे (मर्त्यस्य) मनुष्यस्य (मायिनः) कपटधर्माचरणयुक्तस्य। माया कुत्सिता प्रज्ञा विद्यते यस्य तस्य। अत्र निंदार्थ इनिः। मायेति प्रज्ञानामसु पठितम् निघं० ३।९। ॥२॥
अथैतेभ्य उपदिश्याऽशीर्दत्वा युष्माभिः किं किं साधनीय मित्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
What all should you accomplish with the help of the Maruts is taught in the 2nd Mantra.
Strong be your weapons for driving away your foes, firm in resisting them, Yours be the army that men praise, not that (army or strength) of an unrighteous deceitful mortal.
MATA SAVITA JOSHI
N/A
