स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः । मिहं॑ कृण्वन्त्यवा॒ताम् ॥
satyaṁ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ | mihaṁ kṛṇvanty avātām ||
स॒त्यम् । त्वे॒षाः । अम॑वन्तः । धन्व॑म् । चि॒त् । आ । रु॒द्रिया॑सः । मिह॑म् । कृ॒ण्व॒न्ति॒ । अ॒वा॒ताम्॥
SWAMI DAYANAND SARSWATI
फिर वे कैसे हों, इस विषय का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
अवाता वृष्टि
SWAMI DAYANAND SARSWATI
(सत्यम्) अविनाशि गमनागमनाख्यं कर्म (त्वेषाः) बाह्याम्यन्तरघर्षणेनोत्पन्नविद्युदग्निना प्रदीप्ताः। (अमवन्तः) अमानां रोगानां गमनागमनबलानां वा संबन्धो विद्यते एषान्ते। अत्र संबंधार्थे मतुम्। अम रोगे। अमगत्यादिषु चेत्यस्माद्हलश्च# इति करणाधिकरणयोर्घञ्। अमन्ति रोगं प्राप्नुवन्ति यद्वाऽमंति गच्छंत्यागच्छन्ति बलयन्ति यैस्तेऽमाः (धन्वन्) धन्वन्यन्तरिक्षे मरुस्थले वा। धन्वेत्यन्तरिक्षनामसु पठितम्। निघं० १।३। पदना० च। निघं०। ४।२। (चित्) उपमार्थे (आ) अभितः (रुद्रियासः) रुद्राणां जीवानामिमे जीवननिमित्ता रुद्रिया वायवः। तस्येदम् +इति शैषिको घः। आज्जसरेसुग् इत्यसुगागमः (मिहम्) मेहति सिंचति यया तां वृष्टिम् (कृण्वन्ति) कुर्वन्ति (अवाताम्) अविद्यमाना वातो यस्यास्ताम् ॥७॥ #[अ० ३।३।१२१।] +[अ० ४।३।१२०।]
पुनस्ते कीदृशा भवेयुरित्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
O men, you should truly behave like the winds in the firmament that are powerful and kindled with electricity caused by internal and external rubbing, giving life to the soul and causing no withered day or rains over even the desert.
MATA SAVITA JOSHI
N/A
