तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । होत्रा॑भिर॒ग्निं मनु॑षः॒ समि॑न्धते तिति॒र्वांसो॒ अति॒ स्रिधः॑ ॥
taṁ ghem itthā namasvina upa svarājam āsate | hotrābhir agnim manuṣaḥ sam indhate titirvāṁso ati sridhaḥ ||
तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒राज॑म् । आ॒स॒ते॒ । होत्रा॑भिः । अ॒ग्निम् । मनु॑षः । सम् । इ॒न्ध॒ते॒ । ति॒ति॒र्वांसः॑ । अति॑ । स्रिधः॑॥
SWAMI DAYANAND SARSWATI
फिर उसी अर्थ का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
प्रभु - प्राप्ति के साधन व फल तं
SWAMI DAYANAND SARSWATI
(तम्) प्रधानं सभाध्यक्षं राजानम् (घ) एव (ईम्) प्रदातारम्। ईमिति पदनामसु पठितम्। निघं० ४।२। अनेन प्राप्त्यर्थो गृह्यते (इत्था) अनेन प्रकारेण (नमस्विनः) नमः प्रशस्तो वज्रः शस्त्रसमूहो विद्यते येषां ते। अत्र प्रशंसार्थे विनिः। (उप) सामीप्ये (स्वराजम्) स्वेषां राजा स्वराजस्तम् (आसते) उपविशन्ति (होत्राभिः) हवनसत्यक्रियाभिः (अग्निम्) ज्ञानस्वरूपम् (मनुषः) मनुष्याः। अत्र मनधातोर्बाहुलकादौणादिक उसिः प्रत्ययः। (सम्) सम्यगर्थे (इन्धते) प्रकाशयन्ते (तितिर्वांसः) सम्यक् तरन्तः। अत्र तॄधातोर्लिटः* स्थाने वर्त्तमाने क्वसुः। (अति) अतिशयार्थे (स्रिधः) हिंसकान क्षयकर्त्तृञ्च्छत्रून् ॥७॥*[लोटः। सं०]
पुनः स एवार्थ उपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
The same subject is continued.
Those persons who possess weapons to destroy their enemies and who with Haven (daily Yajna) and other noble acts approach and enkindle (support ) the King or President of the Assembly who is bright with his radiance, are victorious over their foes.
MATA SAVITA JOSHI
N/A
