जना॑सो अ॒ग्निं द॑धिरे सहो॒वृधं॑ ह॒विष्म॑न्तो विधेम ते । स त्वं नो॑ अ॒द्य सु॒मना॑ इ॒हावि॒ता भवा॒ वाजे॑षु सन्त्य ॥
janāso agniṁ dadhire sahovṛdhaṁ haviṣmanto vidhema te | sa tvaṁ no adya sumanā ihāvitā bhavā vājeṣu santya ||
जना॑सः । अ॒ग्निम् । द॒धि॒रे॒ । स॒हः॒वृध॑म् । ह॒विष्म॑न्तः । वि॒धे॒म॒ । ते॒ । सः । त्वम् । नः॒ । अ॒द्य । सु॒मनाः॑ । इ॒ह । अ॒वि॒ता । भव॑ । वाजे॑षु । स॒न्त्य॒॥
SWAMI DAYANAND SARSWATI
फिर भी अगले मन्त्र में उक्त विषय का उपदेश किया है।
HARISHARAN SIDDHANTALANKAR
सुमनाः - अविता
SWAMI DAYANAND SARSWATI
(जनासः) विद्यासु प्रादुर्भूता मनुष्याः (अग्निम्) सर्वाभिरक्षकमीश्वरम् (दधिरे) धरन्ति। अत्र लडर्थे लिट्। (सहोवृधम्) सहोबलं वर्धयतीति सहोवृत्तम् (हविष्मन्तः) प्रशस्तानि हवींषि दातुमादातुमर्हाणि वस्तूनि विद्यन्ते येषां ते। अत्र प्रशंसार्थे मतुप्। (विधेम) सेवेमहि (ते) तव। अत्र सायणाचार्य्येण ते त्वामित्युक्तं तन्न संभवति द्वितीयैकवचने त्वाऽऽदेशविधानात् (सः) ईश्वरः (त्वम्) सर्वदाप्रसन्नः (नः) अस्माकम् (अद्य) अस्मिन्नहनि (सुमनाः) शोभनं मनोज्ञानं यस्य सः (इह) अस्मिन् संसारे (अविता) रक्षको ज्ञापकः सर्वासु विद्यासु प्रवेशकः (भवा) अत्र द्वचोतस्तिङ् इति दीर्घः। (वाजेषु) युद्धेषु (संत्य) सन्तौ दाने साधुस्तत्संबुद्धौ। अत्र षणुदानइत्यस्माद्बाहुलकादौणादिकस्तिः प्रत्ययस्ततः साध्वर्थे यच्च ॥२॥
पुनः स एवार्थ उपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
The same subject is taught further.
O God, the most Liberal Donor, as worshippers offering oblations and possessing and giving good articles, take recourse to Thee, so we also worship Thee who art the augmenter of vigor. So O Omniscient Lord, be our Gracious Helper in all deeds of might, be Thou, O Excellent, our Protector this day and for ever.
MATA SAVITA JOSHI
N/A
