नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते । दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टयः॑ ॥
ni tvām agne manur dadhe jyotir janāya śaśvate | dīdetha kaṇva ṛtajāta ukṣito yaṁ namasyanti kṛṣṭayaḥ ||
नि । त्वाम् । अ॒ग्ने॒ । मनुः॑ । द॒धे॒ । ज्योतिः॑ । जना॑य । शश्व॑ते । दी॒देथ॑ । कण्वे॑ । ऋ॒तजा॑तः । उ॒क्षि॒तः । यम् । न॒म॒स्यन्ति॑ । कृ॒ष्टयः॑॥
SWAMI DAYANAND SARSWATI
फिर उन राजपुरुषों के सहायक जगदीश्वर कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
मनु व कृष्टि
SWAMI DAYANAND SARSWATI
(नि) नितराम् (त्वाम्) सर्वसुखप्रदम्। अत्र स्वरव्यत्ययादुदात्तत्वम् सायणाचार्येणेदं भ्रमान्न बुद्धम् (अग्ने) तेजस्विन् (मनुः) विज्ञानन्यायेन सर्वस्याः प्रजायाः पालकः (दधे) स्वात्मनि धरे (ज्योतिः) स्वयं प्रकाशकत्वेन ज्ञानप्रकाशकम् (जनाय) जीवस्य रक्षणाय (शश्वते) स्वरूपेणानादिने (दीदेथ) प्रकाशयेथ शबभावः। (कण्वे) मेधाविनि जने (ऋतजातः) ऋतेन सत्याचरणेन जातः प्रसिद्धः (उक्षितः) आनन्दैः सिक्तः (यम्) परमात्मानम् (नमस्यन्ति) पूजयन्ति। नमसः पूजायाम्#। अ० ३।१।१९। (कृष्टयः) मनुष्याः। कृष्टय इतिमनुष्यनामसु पठितम्। निघं० २।३। ॥१९॥ #[नमोवरिवश्चित्रङः क्यच्। अ० ३।१।१९ इत्ययेन सूत्रेण नमसः पूजायामिति नियमात्पूजार्थे क्यच् प्रत्ययः। सं०]
पुनरेषां सहायकारी जगदीश्वरः कीदृश इत्युपदिश्यते।
DR. TULSI RAM
MATA SAVITA JOSHI
N/A
