रा॒यस्पू॑र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने॑ दे॒वेष्वाप्य॑म् । त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो॑ मृळ म॒हाँ अ॑सि ॥
rāyas pūrdhi svadhāvo sti hi te gne deveṣv āpyam | tvaṁ vājasya śrutyasya rājasi sa no mṛḻa mahām̐ asi ||
रा॒यः । पू॒र्धि॒ । स्वध॒ा॒वः॒ । अ॒स्ति॒ । हि । ते॒ । अ॒ग्ने॒ । दे॒वेषु॑ । आप्य॑म् । त्वम् । वाज॑स्य । श्रुत्य॑स्य । रा॒ज॒सि॒ । सः । नः॑ । मृ॒ळ्ह॒ । म॒हान् । अ॒सि॒॥
SWAMI DAYANAND SARSWATI
फिर भी अगले मंत्र में उन्हीं राजपुरुषों के गुणों का उपदेश किया है।
HARISHARAN SIDDHANTALANKAR
प्रशंसनीय धन व बल
SWAMI DAYANAND SARSWATI
(रायः) विद्यासुवर्णचक्रवर्त्तिराज्यादिधनानि (पूर्धि) पिपूर्धि। अत्र #बहुलंछन्दसि इति शपोलुक्। *श्रुशृणुपृ० इति हेर्धिः। (स्वधावः) स्वधा भोक्तव्या अन्नादिपदार्थाःसन्ति यस्य तत्संबुद्धौ (अस्ति) (हि) यतः (ते) तव (अग्ने) अग्निवत्तेजस्विन् (देवेषु) विद्वत्सु (आप्यम्) आप्तुं प्राप्तुं योग्यं सखित्वम्। अत्र आप्लृव्याप्तावित्यस्मादौणादिको यत्। अत्र सायणाचार्य्येण प्रमादाददुपधत्वाभावेऽपि पोरदुपधात् इतिकर्मणि यत्। ¤यतो नाव इत्याद्यु दात्तत्वम् यच्चछान्दसमाद्यु दात्तत्वमित्यशुद्धमुक्तम्। औणादिकस्य यत्प्रस्ययस्य विद्यमानत्वात् (त्वम्) पुत्रवत्प्रजापालकः (वाजस्य) युद्धस्य (श्रुत्यस्य) श्रोतुं योग्यस्य। श्रुश्रवण इत्यस्मादौणादिकः कर्मणि क्यप् प्रत्ययः। (राजसि) प्रकाशितो भवसि (सः) (नः) अस्मान् (मृड) सुखय (महान्) बृहद्गुणाढ्यः (असि) वर्त्तसे ॥१२॥ #[अ० २।४।७३।] *[अ० ६।४।१०२।] ¤[अ० ६।१।२१०।]
पुनश्च तेषामेव राजपुरुषाणां गुणा उपदिश्यन्ते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
The attributes of those persons of the State are taught further.
O President of the Assembly, full of splendor like the fire and the food materials, as you have friendship with enlightened truthful persons and are great, you shine in the famous battles whose account is worth-hearing, make us happy. Make our wealth consisting of knowledge and gold and vast Government etc. perfect.
MATA SAVITA JOSHI
N/A
