अ॒ष्टौ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् । हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥
aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn | hiraṇyākṣaḥ savitā deva āgād dadhad ratnā dāśuṣe vāryāṇi ||
अ॒ष्टौ । वि । अ॒ख्य॒त् । क॒कुभः॑ । पृ॒थि॒व्याः । त्री । धन्व॑ । योज॑ना । स॒प्त । सिन्धू॑न् । हि॒र॒ण्य॒अ॒क्षः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् । दध॑त् । रत्ना॑ । दा॒शुषे॑ । वार्या॑णि॥
SWAMI DAYANAND SARSWATI
फिर इसके कृत्य का उपदेश अगले मन्त्र में किया है।
HARISHARAN SIDDHANTALANKAR
हिरण्याक्ष - सविता
SWAMI DAYANAND SARSWATI
(अष्टौ) चतस्रोदिश उपदिशश्च (वि) विशेषार्थे क्रियायोगे (अख्यात्) ख्यापयति (ककुभः) दिशः। ककुभइति दिङ्नामसु पठितम्। निघं० १।६। (पृथिव्याः) भूमेः सम्बन्धिनीः (त्री) त्रीणि भूम्यन्तरिक्षप्रकाशस्थानि भुवनानि (धन्व) प्राप्तव्यानि। अत्र गत्यर्थाद्धविधातोरौणादिकः कनिन् सुपां सुलुग् इतिविभक्तेर्लुक्। (योजना) युज्यन्ते सर्वाणि वस्तूनि येषु भुवनेषु तानि योजनानि। अत्र शेश्छन्दसि इति शेर्ल्लोपः। (सप्त) सप्तसङ्ख्याकान् (सिंधून्) भूम्यन्तरिक्षोपर्युपरिस्थितान् (हिरण्याऽक्षः) हिरण्यानि ज्योतींष्यक्षीणि व्याप्तिशीलानि यस्य सः (सविता) वृष्ट्युत्पादकः (देवः) द्योतनात्मकः (आ) समंतात् (अगात्) एति प्राप्नोति। अत्र लडर्थे लुङ्। इणो गा लुङि। अ० २।४।४५। इति गा आदेशः। (दधत्) दधातीति दधत्सन् (रत्ना) सुवर्णादीनि रमणीयानि (दाशुषे) सर्वोपकारकाय विद्यादिदानशीलाय यजमानाय (वार्य्याणि) वरितुं ग्रहीतुं योग्यानि ॥८॥
पुनरेतस्य कृत्यमुपदिश्यन्ते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
The same subject of Savita is continued.
O president of the Assembly, You should be like the sun who lights up or illumines the earth's eight quarters, the three worlds where all objects are placed properly and the moving seven waters in the firmament. He the glorious Sun, comes on all sides upholding desirable gold and other objects for the benevolent Yajamana (performing Yajnas) imparting education to all.
MATA SAVITA JOSHI
N/A
