वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः । क्वे॒३॒॑दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥
vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ | kvedānīṁ sūryaḥ kaś ciketa katamāṁ dyāṁ raśmir asyā tatāna ||
वि । सु॒प॒र्णः । अ॒न्तरि॑क्षाणि । अ॒ख्य॒त् । ग॒भी॒रवे॑पाः । असु॒रः । सु॒नी॒थः । क्व॑ । इ॒दानी॒म् । सूर्यः॑ । कः । चि॒के॒त॒ । क॒त॒माम् । द्याम् । र॒श्मिः । अ॒स्य॒ । आ । त॒ता॒न॒॥
SWAMI DAYANAND SARSWATI
फिर इस सूर्यलोक के गुणों का उपदेश अगले मंत्र में किया है।
HARISHARAN SIDDHANTALANKAR
सूर्य की सुपर्णता व असुरता
SWAMI DAYANAND SARSWATI
(वि) विशेषार्थे (सुपर्णः) शोभनपतनशीला रश्मयो यस्य। सुपर्णा इति रश्मिनामसु पठितम्। निघं० १।५। (अन्तरिक्षाणि) अन्तरिक्षस्थानि सर्वाणि भुवनानि (अख्यत्) ख्यापयति प्रकाशयति (गभीरवेपाः) गभीरोऽविद्वद्भिर्लक्षितुमशक्यो वेपः कंपनं यस्य सः। टुवेपृकंपन अस्मात्सर्वधातुभ्योऽसुन् इत्यसुन् प्रत्ययः (असुरः) सर्वेभ्यः प्राणदः सूर्य्योदये मृता इवोत्तिष्ठन्तीत्यतः। असुषु प्राणेषु रमते वा। (सुनीथः) सुष्ठनीथाः पदार्थप्राप्तयो यस्मात् सः। हनिकुषि० उ० २।२। अनेन णीञ् प्रापणे धातोः क्थन् प्रत्ययः (क्व) कुत्र (इदानीम्) अस्मिन् समये वर्त्तमानायां रात्रौ (सूर्यः) (कः) विद्वान् (चिकेत) केतति जानाति। अत्र कितज्ञाने धातोर्लडर्थे लिट्। (कतमाम्) बहूनां पृथिवीनां मध्ये काम् (द्याम्) द्योतनात्मिकाम् (रश्मिः) ज्योतिः (अस्य) सूर्यस्य (आ) समन्तात् (ततान) तनोति विस्तृणोति। अत्रापि लडर्थे लिट् ॥७॥
पुनरस्य सूर्यलोकस्य गुणा उपदिश्यन्ते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
The attributes of the solar world are taught further in the seventh Mantra.
O learned person, The solar ray which is the giver of life to all, deep-quivering, well-directed or cause of the attainment of all articles, has illuminated the three regions. At night, where is the sun whose rays illumine or light up the world ? Who knows all this properly ? Who knows to what sphere, his rays have extended ? This can be known. Only by some learned persons and not by all. You should know all this well.
MATA SAVITA JOSHI
N/A
