वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः । शश्व॒द्विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥
vi janāñ chyāvāḥ śitipādo akhyan rathaṁ hiraṇyapraügaṁ vahantaḥ | śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ ||
वि । जना॑न् । श्या॒वाः । शि॒ति॒पादः॑ । अ॒ख्य॒न् । रथ॑म् । हिर॑ण्यप्रउग॒म् । वह॑न्तः । शश्व॑त् । विशः॑ । स॒वि॒तुः । दैव्य॑स्य । उ॒पस्थे॑ । विश्वा॑ । भुव॑नानि । त॒स्थुः॒॥
SWAMI DAYANAND SARSWATI
फिर वे कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है।
HARISHARAN SIDDHANTALANKAR
सम्पूर्ण प्रजाओं व भुवनों का आधार
SWAMI DAYANAND SARSWATI
(वि) विशेषार्थे (जनान्) विदुषः (श्यावाः) श्यायन्ते प्राप्नुवन्ति ते। श्यावाः सवितुरित्यादिष्टोपयोजननामसु पठितम्। निघं० १।१५। (शितिपादः) शितयः शुक्लाः पादा अंशा येषां किरणानान्ते (अख्यन्) ख्याता भवन्ति। अत्र लडर्थे लुङ्। (रथम्) विसानादियानम् (हिरण्यप्रउगम्) हिरण्यस्य ज्योतिषोऽग्नेः प्रउगं सुखवत्स्थानं यस्मिँस्तं प्रयोगार्हम्। पृषोदरादिना अभीष्टरूपसिद्धिः (वहन्तः) प्राप्नुवन्तः (शश्वत्) अनादयः (विशः) प्रजाः (सवितुः) सूर्यलोकस्य (दैव्यस्य) देवेषु दिव्येषु पदार्थेषु भवो दैव्यस्तस्य (उपस्थे) उपतिष्ठन्ते यस्मिँस्तस्मिन्। अत्र घञर्थे कविधानम् इत्यधिकरणे कः प्रत्ययः। (विश्वा) विश्वानि सर्वाणि। अत्र शेश्छन्दसि इति शेर्लोपः। (भुवनानि) पृथिवीगोलादीनि (तस्थुः) तिष्ठन्ति। अत्र लडर्थे लिट् ॥५॥
पुनस्तौ कीदृशावित्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
How are they (the air and the Sun) is taught in the fifth Mantra.
O noble person, as all men and all the regions are dependent (for light and life) on the sun, whose white rays manifest light to man-kind, maintaining aero planes and other vehicles where fire and light are properly put, so learned men should stay with you and you should manifest knowledge and righteousness.
MATA SAVITA JOSHI
N/A
