अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् । आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥
abhīvṛtaṁ kṛśanair viśvarūpaṁ hiraṇyaśamyaṁ yajato bṛhantam | āsthād rathaṁ savitā citrabhānuḥ kṛṣṇā rajāṁsi taviṣīṁ dadhānaḥ ||
अ॒भिवृ॑तम् । कृश॑नैः । वि॒श्वरू॑प॒म् । हिर॑ण्यशम्यम् । य॒ज॒तः । बृ॒हन्त॑म् । आ । अ॒स्था॒त् । रथ॑म् । स॒वि॒ता । चि॒त्रभा॑नुः । कृ॒ष्णा । रजां॑सि । तवि॑षीम् । दधा॑नः॥
SWAMI DAYANAND SARSWATI
फिर भी अगले मन्त्र में उन दोनों के दृष्टान्त से राजकार्य्य का उपदेश किया है।
HARISHARAN SIDDHANTALANKAR
शक्ति व प्रकाश का केन्द्र
SWAMI DAYANAND SARSWATI
(अभिवृतम्) अभितः सर्वतः साधनैः पूर्णो वर्त्तते सोऽभीवृत्तम्। नहिवृति० अ० ६।३।११६। इति पूर्वस्य दीर्घत्वम् (कृशनैः) तनूकरणैः सूक्ष्मत्वनिष्पादकैः किरणैर्विविधैरूपैर्वा। कृशनमिति रूपनामसु पठितम्। निघं० ३।७। (विश्वरूपम्) विश्वानि बहूनि रूपाणि यस्मिन् प्रकाशे तम् (हिरण्यशम्यम्) हिरण्य सुवर्णान्यन्यानि वा ज्योतींषि शम्यानि शमितुं योग्यानि यस्मिँस्तम् (यजतः) सङ्गतिप्रकाशयोर्दाता (बृहन्तम्) महान्तम् (आ) समंतात् (अस्थात्) तिष्ठति। अत्र लडर्थे लुङ् (रथम्) यस्मिन् रमते तम्। रममाणोऽस्मिँस्तिष्ठतीति वा। निरु० ९।११। (सविता) ऐश्वर्यवाव्राजा सूर्यलोको वायुर्वा। सवितेति पदनामसु पठितम्। निघं० ५।४। अनेन प्राप्तिहेतोर्वायोरपिग्रहणम्। (चित्रभानुः) चित्राभानवो दीप्तयो यस्य यस्माद्वा सः (कृष्णा) कृष्णान्याकर्षणकृष्णवर्णयुक्तानि पृथिव्यादीनि (रजांसि) लोकान् (तविषीम्) बलम्। तविषीति बलनामसु पठितम्। निघं० २।९। (दधानः) धरन् ॥४॥
पुनस्तयोर्दृष्टान्तेन राजकृत्यमुपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
By their (of the air and the sun) illustration the duties of a king are taught.
O king or President of the Assembly, you should be like the many rayed sun who is giver of light, having power to disperse darkness with his brightest splendor from the world, decorated with many kinds of golden ornaments and furnished with golden yokes mounted on his golden chariot ( so to speak ) many-hued. You should also be like the air which upholds the world. (It is to be clearly understood that this description of the sun is poetical and metaphorical).
MATA SAVITA JOSHI
N/A
