त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः । ओ॒मानं॑ शं॒योर्मम॑काय सू॒नवे॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥
trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ | omānaṁ śaṁyor mamakāya sūnave tridhātu śarma vahataṁ śubhas patī ||
त्रिः । नः॒ । अ॒श्वि॒ना॒ । दि॒व्यानि॑ । भे॒ष॒जा । त्रिः । पार्थि॑वान् । त्रिः । ऊँ॒ इति॑ । द॒त्त॒म् । अ॒त्भ्यः । ओ॒मान॑म् । श॒म्योः । मम॑काय । सू॒नवे॑ । त्रि॒धातु॑ । शर्म॑ । व॒ह॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑॥
SWAMI DAYANAND SARSWATI
फिर उनसे क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।
HARISHARAN SIDDHANTALANKAR
मानसशान्ति व शारीरिक स्वास्थ्य
SWAMI DAYANAND SARSWATI
(त्रिः) त्रिवारम् (नः) अस्मभ्यम् (अश्विना) अश्विनौ विद्याज्योतिर्विस्ता रमयौ (दिव्यानि) विद्यादि शुभगुणप्रकाशकानि (भेषजा) सोमादीन्यौषधानि रसमयानि (त्रिः) त्रिवारम् (पार्थिवानि) पृथिव्याविकारयुक्तानि (त्रिः) त्रिवारम् (ऊँ) वितर्के (दत्तम्) (अद्भ्यः) सातत्यगन्तृभ्यो वायुविद्युदादिभ्यः (ओमानम्) रक्षन्तम् विद्याप्रवेशकं क्रियागमकं व्यवहारम्। अत्रावधातोः। अन्येभ्योपि दृश्यन्त इति मनिन्। (शंयोः) शं सुखं कल्याणं विद्यते यस्मिँस्तस्य (ममकाय) ममायं ममकस्तस्मै। अत्र संज्ञापूर्वको विधिरनित्यः। अ० ६।४।१४६। इति‡ वृद्ध्यभावः (सूनवे) औरसाय विद्यापुत्राय वा (त्रिधातु) त्रयोऽयस्ताम्रपित्तलानि धातवे यस्मिन् भूसमुद्रान्तरिक्षगमनार्थे याने तत (शर्म) गृहस्वरूपं सुखकारकं वा। शर्मेति गृहनामसु पठितम्। निघं० ३।४। (वहतम्) प्रापयतम् (शुभः) यत् कल्याणकारकं मनुष्याणां कर्म तस्य। अत्र संपदादित्वात् क्विप्। (पती) पालयितारौ। पष्ठ्याःपतिपुत्र०। अ० ८।३।५३। इति संहितायां◌ विसर्जनीयस्य सकारादेशः ॥६॥ ‡[अनया परिभाषया। सं०] ◌[शुभ् शब्दस्य। सं०]
पुनस्ताभ्यां किं कार्यमित्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
The same subject is continued-
O Protectors of the auspicious good actions of men, O learned men, full of the light of knowledge, thrice grant us the medicaments like Soma etc. which manifest good virtues like knowledge, by increasing intellect and those got from the earth and those got from the water, ever moving air and electricity. Grant unto our sons (whether physical or spiritual) prosperity, happiness and peace which protect and help in the acquisition of wisdom. Grant unto us the conveyances that enable us to travel on earth, sea and firmament which give us happiness and are made like our home.
MATA SAVITA JOSHI
N/A
