आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभिः॑ । यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव॑न्त॒मिष्य॑ति ॥
ā nāsatyā gacchataṁ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ | yuvor hi pūrvaṁ savitoṣaso ratham ṛtāya citraṁ ghṛtavantam iṣyati ||
आ । ना॒स॒त्या॒ । गच्छ॑तम् । हू॒यते॑ । ह॒विः । मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒पेभिः॑ । आ॒सभिः॑ । यु॒वोः । हि । पूर्व॑म् । स॒वि॒ता । उ॒षसः॑ । रथ॑म् । ऋ॒ताय॑ । चि॒त्रम् । घृ॒तव॑न्तम् । इष्य॑ति॥
SWAMI DAYANAND SARSWATI
फिर उनसे क्या सिद्ध करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।
HARISHARAN SIDDHANTALANKAR
मधु - पान
SWAMI DAYANAND SARSWATI
(आ) समन्तात् (नासत्या) अश्विनाविव। अत्र सुपां सुलुग् इत्याकारादेशः (गच्छतम्) (हूयते) क्षिप्यते दीप्यते (हविः) होतुं प्रक्षेप्तं दातुमर्हं काष्ठादिकमिन्धनम् (मध्वः) मधुरगुणयुक्तानि जलानि। मध्वित्युदकनामसु पठितम्। निघं० १।१२। अत्र लिंगव्यत्ययेन पुँस्त्वम्। वाच्छन्दसिसर्वे० इति पूर्वसवर्णप्रतिषेधा द्यणादेशः। (पिबतम्) (मधुपेभिः) मधूनि जलानि पिबन्ति यैस्तैः (आसभिः) स्वकीयैरास्यवच्छेदकगुणैः। अत्रास्यस्य स्थाने पदन्नोमासू०। अ० ६।१।६३। इत्यासन्नादेशः। (युवोः) युवयोः (हि) निश्चयार्थे (पूर्वम्) प्राक् (सविता) सूर्यलोकः (उषसः) सूर्योदयात्प्राक् वर्त्तमानकालवेलायाः (रथम्) रमणहेतुम् (ऋताय) सत्यगमनाय। ऋतमिति सत्यनामसु पठितम्। निघं० ३।१२। (चित्रम्) आश्चर्य्यवेगादियुक्तम् (घृतवन्तम्) घृतानि बहून्युदकानि विद्यन्ते यस्मिँस्तम्। घृतमित्युदकनामसु पठितम्। निघं० १।१२। (इष्यति) गच्छति ॥१०॥
पुनस्ताभ्यां किं साधनीयमित्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
The same subject is continued.
O truthful expert artisans ! whatever fuel and oblations you put in the fire, drink the sweet and thereby purified water with lips that know the sweetness of all. Come for our delight to our pleasant dwelling place at the dawn before the rise of the sun with your wonderful chariot full of water etc. that sort of chariot or car is to be taken by us for true movement and speedy locomotion.
MATA SAVITA JOSHI
N/A
