च॒क्रा॒णासः॑ परी॒णहं॑ पृथि॒व्या हिर॑ण्येन म॒णिना॒ शुम्भ॑मानाः । न हि॑न्वा॒नास॑स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो॑ अदधा॒त्सूर्ये॑ण ॥
cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ | na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa ||
च॒का॒णासः॑ । प॒रि॒नह॑म् । पृ॒थि॒व्याः । हिर॑ण्येन । म॒णिना॑ । शुम्भ॑मानाः । न । हि॒न्वा॒नासः॑ । ति॒ति॒रुः॒ । ते । इन्द्र॑म् । परि॑ । स्पशः॑ । अ॒द॒धा॒त् । सूर्ये॑ण॥
SWAMI DAYANAND SARSWATI
फिर अगले मन्त्र में इन्द्र के कृत्य का उपदेश किया है।
HARISHARAN SIDDHANTALANKAR
ज्ञान - ज्योति के पात्र
SWAMI DAYANAND SARSWATI
(चक्राणासः) भृशं युद्धं कुर्वाणाः (परीणहम्) परितस्सर्वतः प्रबन्धनं सुखाच्छादकत्वेन व्यापनं वा। णह बन्धन इत्यस्मात् क्विप् च इति क्विप् नहिवृति० #अनेनादेर्दीर्घः। (पृथिव्याः) भूमे राज्यस्य (हिरण्येन) न्यायप्रकाशेन सुवर्णादिधातुमयेन वा। (मणिना) आभूषणेन (शुम्भमानाः) शोभायुक्ताः (न) निषेधार्थे (हिन्वानासः) सुखं संपादयन्तः (तितिरुः) प्लवन्त उल्लंघयन्ति। अत्र लडर्थे लिट्। (ते) शत्रवो दुष्टा मनुष्याः (इन्द्रम्) सबलं सेनाध्यक्षम् (परि) सर्वतो भावे (स्पशः) ये स्पशन्ति ते। अत्र क्विप् प्र०। (अदधात्) दधाति। अत्र लडर्थे लङ्। (सूर्येण) सवितृमण्डलेनेव ॥८॥ #[अ० ६।३।११६।]
पुनरिन्द्रकृत्यमुपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
The duties of Indra are taught further.
As the clouds trying to cover the light of the sun and to envelop the earth, can not overcome the sun who is decorated with gold and jewels (so to speaks in the same manner, all should endeavor in such a way that the enemies may not be able to harm the commanders of their armies.
MATA SAVITA JOSHI
N/A
