अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयन्त क्षि॒तयो॒ नव॑ग्वाः । वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा॑च्चि॒तय॑न्त आयन् ॥
ayuyutsann anavadyasya senām ayātayanta kṣitayo navagvāḥ | vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan ||
अयु॑युत्सन् । अ॒न॒व॒द्यस्य॑ । सेना॑म् । अया॑तयन्त । क्षि॒तयः॑ । नव॑ग्वाः । वृ॒ष॒युधः॑ । न । वध्र॑यः । निःअ॑ष्टाः । प्र॒वत्भिः॑ । इन्द्रा॑त् । चि॒तय॑न्तः । आ॒य॒न्॥
SWAMI DAYANAND SARSWATI
फिर उसका क्या कार्य है, यह उपदेश अगले मन्त्र में किया है।
HARISHARAN SIDDHANTALANKAR
शत्रुओं का भाग खड़े होना
SWAMI DAYANAND SARSWATI
(अयुयुत्सन्) युद्धेच्छां कुर्य्युः। अत्र लिङर्थे लङ्। व्यत्ययेन परस्मैपदं च (अनवद्यस्य) सद्गुणैः प्रशंसनीयस्य सेनाध्यक्षस्य (सेनाम्) चतुरंगिणीं संपाद्य (अपातयन्त) सुशिक्षया प्रयत्नवतीं संस्कुर्वन्तु (क्षितयः) क्षियन्ति क्षयं प्राप्नुवन्ति निवसन्ति ये ते मनुष्याः। क्षितय इति मनुष्यनामसु पठितम्। निघं० २।३। क्षिनिवासगत्योरर्थयोर्वर्त्तमानाद् धातोः। क्तिच् क्तौ च संज्ञायाम्। अ० ३।३।१७४। अनेन क्तिच्। (नवग्वाः) नवीनशिक्षाविद्याप्राप्तः प्रापयितारश्च। नवगतयो नवनीतगतयो वा। निरु० ११।१९। (वृषायुधः) ये वृषेण वीर्यवता शूरवीरेण सह युध्यन्ते ते। वृषोपपदे क्विप् च इतिक्विप्। अन्येषामपि दृश्यते इति दीर्घः। (न) इव (वध्रयः) ये वध्यन्ते निर्वीर्या नपुंसका वीर्य्यहीनास्ते (निरष्टाः) ये नितरां अश्यन्ते व्याप्यन्ते शत्रुभिर्बलेन ते (प्रवद्भिः) ये नीचमार्गैः प्रवन्ते प्लवन्ते तैः (इन्द्रात्) शूरवीरात् (चितयन्तः) धनुर्विद्यया प्रहारादिकं संज्ञानन्तः (आयन्) ईयुः। अत्र लिङर्थे लङ् ॥६॥
पुनस्तस्य किं कृत्यमित्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
What is again his duty is taught in the 6th Mantra.
O heroes, having received good education and giving it to others, fighting under a powerful commander, knowing all the "rules of the military science, you should accept him as the Chief Commander of the army when fighting with un-righteous foes, who is irreproachable and before whom, scatter all his foes, conscious of their inferiority, like the emasculated weaklings contending with mighty men. They fly before him by precipitous paths, as they can never dare stand before him. Under his command, you should try to make your army invincible in every respect.
MATA SAVITA JOSHI
N/A
