वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिन्द्र । धनो॒रधि॑ विषु॒णक्ते व्या॑य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ॥
vadhīr hi dasyuṁ dhaninaṁ ghanenam̐ ekaś carann upaśākebhir indra | dhanor adhi viṣuṇak te vy āyann ayajvānaḥ sanakāḥ pretim īyuḥ ||
वधीः॑ । हि । दस्यु॑म् । ध॒निन॑म् । घ॒नेन॑ । एकः॑ । चर॑न् । उ॒प॒शा॒केभिः॑ । इ॒न्द्र॒ । धनोः॑ । अधि॑ । वि॒षु॒णक् । ते॒ । वि । आ॒य॒न् । अय॑ज्वानः । स॒न॒काः । प्रइ॑तिम् । ई॒युः॒॥
SWAMI DAYANAND SARSWATI
अगले मन्त्र में इन्द्रशब्द से उसीके गुणों का उपदेश किया है।
HARISHARAN SIDDHANTALANKAR
दस्यु - वध
SWAMI DAYANAND SARSWATI
(बधीः) हिन्धि। अत्र लोडर्थे लुङडभावश्च। (हि) निश्चयार्थे (दस्युम्) बलान्यायाभ्यां परस्वापहर्त्तारम् (धनिनम्) धार्मिकं धनाढ्यम् (घनेन) वज्राख्येन शस्त्रेण मूर्तौ घनः। अ० ३।३।७७। इति घनशब्दोनिपातितस्तेन काठिन्यादिगुणयुक्तो हि शस्त्रविशेषो गृह्यते। अत्र। ईषाअक्षादिषु च छन्दसि प्रकृतिभावमात्रंद्रष्टव्यम्। अ० ६।१।१२७। इति वार्त्तिकेन प्रकृतिभावः। अत्र सायणाचार्य्येण द्रष्टव्यमिति भाष्यकारपाठमबुध्या वक्तव्यमित्यशुद्धः पाठो लिखितः। मूलवार्त्तिकस्यापि पाठो न बुद्धः। (एकः) यथैकोपि परमेश्वरः सूर्यलोको वा। (चरन्) जानन् प्राप्तः सन् (उपशाकेभिः) उपशक्यन्ते यैः कर्मभिस्तैः। बहुलं छन्दसि इति भिस ऐस् न। (इन्द्र) ऐश्वर्ययुक्त शूर वीर (धनोः) धनुषो ज्यायाः (अधि) उपरि भावे (विषुणक्) वेविषत्यधर्मेण ये ते विषवस्तान् नाशयति सः। अत्र अन्तर्गतो ण्यर्थः। (ते) तव (वि) विशेषार्थे (आयन्) यन्ति प्राप्नुवन्ति। अत्र लडर्थे लङ्। (अयज्वानः) अयाक्षुस्ते यज्वानो न यज्वानोऽयज्वानः। (सनकाः) सनन्ति सेवन्ते परपदार्थान् ये ते। अत्र क्कुन् शिल्पिसंज्ञयोरपूर्वस्यापि। उ० २।३२। (प्रेतिम्) प्रयन्ति भ्रियन्ते येन तं मृत्युम् (ईयुः) प्राप्नुयुः। अत्र लङर्थे लिट् ॥४॥
इन्द्रशब्देन पुनः स एवार्थ उपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
O hero, as God destroys with His Powers the wicked, so you should even if alone or singly, slay an un-righteous person taking away others' wealth with force and injustice with your adamantine weapon. Being destroyer of unrighteous persons with your destructive bow and other arms, drive away the wicked and support the righteous wealthy persons. As atheistic un-righteous persons who revile God are ruined by His Powers or germs are destroyed by the rays of the sun, in the same manner, you should endeavor to put an and to the lives of those wicked persons who forcibly take away and enjoy others' articles and who do not perform Yajnas and other noble deeds who are utterly selfish.
MATA SAVITA JOSHI
N/A
