नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा अ॑जति॒ यस्य॒ वष्टि॑ । चो॒ष्कू॒यमा॑ण इन्द्र॒ भूरि॑ वा॒मं मा प॒णिर्भू॑र॒स्मदधि॑ प्रवृद्ध ॥
ni sarvasena iṣudhīm̐r asakta sam aryo gā ajati yasya vaṣṭi | coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha ||
नि । सर्व॑सेनः । इ॒षु॒धीन् । अ॒स॒क्त॒ । सम् । अ॒र्यः । गाः । अ॒ज॒ति॒ । यस्य॑ । वष्टि॑ । चो॒ष्कू॒यमा॑णः । इ॒न्द्र॒ । भूरि॑ । वा॒मम् । मा । प॒णिः । भूः॒ । अ॒स्मत् । अधि॑ । प्र॒वृ॒द्ध॒॥
SWAMI DAYANAND SARSWATI
अब अगले मन्त्र में इन्द्र शब्द से शूरवीर के गुण प्रकाशित किये हैं।
HARISHARAN SIDDHANTALANKAR
बणियाँ नहीं, सर्वसेन
SWAMI DAYANAND SARSWATI
(नि) नितराम् (सर्वसेनः) सर्वाः सेना यस्य सः (इषुधीन्) इषवो वाणा धीयन्ते येषु तान् (असक्त) सज्ज। अत्र सज्जधातोः बहुलं छन्दसि इति शपो लुक्। लोडर्थे लङ् व्यत्ययेनात्मनेपदं च। (सम्) संयोगे (अर्यः) वणिग्जनः। अर्य्यः स्वामिवैश्ययोः। अ० ३।१।१०३। इत्ययं शब्दो निपातितः। (गाः) पशून् (अजति) प्राप्य रक्षति (यस्य) पुरुषस्य (वष्टि) प्रकाशते (चोष्कूयमाणः) सर्वानाप्रावयन्। स्कुञ् आप्रवण इत्यस्य यङन्तं रूपम् (इन्द्र) शत्रूणां दारयितः (भूरि) बहु। भूरीति बहुनामसु पठितम्। निघं० ३।१। (वामम्) वमत्युद्गिरति येन तम्। टुवमु उद्गिरणे ऽस्माद्धातोः हलश्च इति घञ्। उपधावृद्धिनिषेधे प्राप्ते*। अनाचमिकमिवमीनामिति वक्तव्यम्। अ० ७।३।३४। इति वार्त्तिकेन वृद्धिः सिद्धा। (मा) निषेधे (पणिः) सत्यव्यवहारः (भूः) भव। अत्र लोडर्थे लुङ् नमाङ्योग इत्यडभावः। (अस्मत्) स्पष्टार्थम् (अधि) उपरिभावे (प्रवृद्ध) महोत्तमगुणविशिष्ट ॥३॥ *[नोदात्तोपदेशस्य मान्तस्यानाचमेः इत्यनेन। सं०]
अथेन्द्रशब्देन शूरवीरगुणा उपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
Now by the use of the term Indra, the attributes of a hero are taught.
O Commander-in-chief of the army, destroyer of enemies, subduing all, you possessing a complete army honest and truthful in your dealing use your arrows and other arms whenever necessary, to keep your opponents under control, as a trader keeps his cattle. Being always just, be not be opposed to us. Let your splendor shine, so that you may always be victorious.
MATA SAVITA JOSHI
N/A
