न्या॑विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्रः॑ । याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युम् ॥
ny āvidhyad ilībiśasya dṛḻhā vi śṛṅgiṇam abhinac chuṣṇam indraḥ | yāvat taro maghavan yāvad ojo vajreṇa śatrum avadhīḥ pṛtanyum ||
नि । अ॒वि॒ध्य॒त् । इ॒ली॒बिश॑स्य । दृ॒ळ्हा । वि । शृ॒ङ्गिण॑म् । अ॒भि॒न॒त् । शुष्ण॑म् । इन्द्रः॑ । याव॑त् । तरः॑ । म॒घ॒व॒न् । याव॑त् । ओजः॑ । वज्रे॑ण । शत्रु॑म् । अ॒व॒धीः॒ । पृ॒त॒न्युम्॥
SWAMI DAYANAND SARSWATI
फिर अगले मन्त्र में इन्द्र के कृत्य का उपदेश किया है।
HARISHARAN SIDDHANTALANKAR
वृत्र व शुष्ण का नाश [अनालस्य व ओजस्विता]
SWAMI DAYANAND SARSWATI
(नि) निश्चितार्थे (अविध्यत्) विध्यति अत्र लडर्थे लङ्। (इलीविशस्य) इलायाः पृथिव्या विले गर्ते शेते तस्य वृत्रस्य। इलेति पृथिवीनामसु पठितम्। निघं० १।१। इदमभीष्टं पदं पृषोदरादिना सिध्यति। इलीविशस्य इलाविलशयस्य निरु० ६।१९। (दृळहा) दृढानि दृंहितानि वर्द्धितानि किरणशस्त्राणि (वि) विशेषार्थे (शृंगिणम्) शृंगवदुन्नतविद्युद्गर्जनाकारणघनीभूतं मेघं (अभिनत्) भिनत्ति। अत्र लडर्थे लङ्। (शुष्णम्) शोषणकर्त्तारम् (इन्द्रः) विद्युत् (यावत्) वक्ष्यमाणम् (तरः) तरति येन बलेन तत्। तर इति बलनामसु पठितम्। निघं० २।९। (मघवन्) महाधनप्रद महाधनयुक्त वा (यावत्) वक्ष्यमाणम् (ओजः) पराक्रमः (वज्रेण) छेदकेन वेगयुक्तेन तापेन (शत्रुम्) वृत्रमिव शत्रुम् (अवधीः) हिन्धि। अत्र लोडर्थे लुङ्। (पृतन्युम्) पृतनां सेनामिच्छतीव पृतन्यतीति पृतन्युस्तम्। #कव्यध्वरपृतनस्याच लोपः। अ० ७।४।३९। ॥१२॥ #[इत्यनेन पृतनाऽऽकारस्य लोपः।सं०]
पुनरिन्द्रस्य कृत्यमुपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
Again the function of Indra is taught.
O brave person, as Indra (sun) or lightning cuts into pieces the strong parts of Vritra (cloud) sleeping in the cavern of the earth, with all his light, with the thunderbolt of the rays, slays the horny ( mighty) cloud, in the same manner, you should also kill all those enemies who want to attack you with their armies.. You must behave like the sun and the lightning.
MATA SAVITA JOSHI
N/A
