न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्यापः॑ । याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महिः॑ पत्सुतः॒शीर्ब॑भूव ॥
nadaṁ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ | yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva ||
न॒दम् । न । भि॒न्नम् । अ॒मु॒या । शया॑नम् । मनः॑ । रुहा॑णाः । अति॑ । य॒न्ति॒ । आपः॑ । याः । चि॒त् । वृ॒त्रः । म॒हि॒ना । प॒रि॒अति॑ष्ठत् । तासा॑म् । अहिः॑ । प॒त्सु॒तः॒शीः । ब॒भू॒व॒॥
SWAMI DAYANAND SARSWATI
फिर वे दोनों परस्पर क्या करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है।
HARISHARAN SIDDHANTALANKAR
पावों - तले न कि सिर पर
SWAMI DAYANAND SARSWATI
(नदम्) महाप्रवाहयुक्तम् (न) इव (भिन्नम्) विदीर्णतटम् (अमुया) पृथिव्या सह (शयानम्) कृतशयनम् (मनः) अन्तःकरणमिव (रुहाणाः) प्रादुर्भवन्त्यबलन्त्योनद्यः (अति) अतिशयार्थे (यन्ति) गच्छन्ति (आपः) जलानि। आप इत्युदकनामसु पठितम्। निघं० १।१२। (याः) मेघमण्डलस्थाः (चित्) एव (वृत्रः) मेघः (महिना) महिम्ना। अत्र छान्दसोवर्णलोपोवा इतिमकारलोपः। (पर्यतिष्ठत्) सर्वत आवृत्यस्थितः (तासाम्) अपां समूहः (अहिः) मेघः (पत्सुतःशीः) यः पादेष्वधःशेते सः। अत्र सप्तम्यन्तात्पादशब्दात्। इतराभ्योपि दृश्यन्ते। अ० ५।३।१४। इति तसिल्। वाछन्दसिसर्वेविधयोभवन्ति इति विभक्त्यलुक्। शौङ्धातोःक्विप् च। (बभूव) भवति। अत्र लडर्थे लिट् ॥८॥
पुनस्तौ परस्परं किं कुरुत इत्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
What do they ( Indra and Vritra) do is taught in the 8th Mantra.
O great king, as the cloud with its greatness tries to cover the sun, and then vanquished by the sun, lies down recumbent on this earth, as a river bursts through its broken banks. This Ahi (cloud) has been prostrated beneath the feet of the waters that delight the minds of men and which Vritra (cloud) by its might had obstructed. In the same manner, you should subdue all your wicked enemies by captivating them.
MATA SAVITA JOSHI
N/A
