वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ । आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जा मही॑नाम् ॥
vṛṣāyamāṇo vṛṇīta somaṁ trikadrukeṣv apibat sutasya | ā sāyakam maghavādatta vajram ahann enam prathamajām ahīnām ||
वृ॒ष॒यमा॑णः । अ॒वृ॒णी॒त॒ । सोम॑म् । त्रिक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ । आ । साय॑कम् । म॒घवा॑ । अ॒द॒त्त॒ । वज्र॑म् । अह॑न् । ए॒न॒म् । प्र॒थ॒म॒जाम् । अही॑नाम्॥
SWAMI DAYANAND SARSWATI
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है।
HARISHARAN SIDDHANTALANKAR
त्रिकद्रुकों में सोमपान
SWAMI DAYANAND SARSWATI
(वृषायमाणः) वृष इवाचरन् (अवृणीत) स्वीकरोति। अत्र लडर्थे लङ (सोमम्) सूयत उत्पद्यते यस्तं रसम्। (त्रिकद्रु केषु) त्रय उत्पत्तिस्थितिप्रलयाख्याः कद्रवोविविधकला येषां तेषु कार्यपदार्थेषु। अत्र कदिधातोरौणादिकः क्रुन्प्रत्ययः। पुनः समासान्तः कप् च। (अपिबत्) स्वप्रकाशेन पिबति। अत्र लडर्थे लङ् (सुतस्य) उत्पन्नस्य जगतो मध्ये (आ) क्रियायोगे। (सायकम्) शस्त्रविशेषम् (मघवा) मघं बहुविधं पूज्यं धनं यस्य सः। अत्र भूम्न्यर्थे मतुप्। (अदत्त्) ददाति वा। अत्र वर्त्तमाने लङ्। (वज्रम्) किरणसमूहमिवास्त्रम् (अहन्) हन्ति। अत्र वर्त्तमाने लङ्। (एनम्) मेघम् (प्रथमजाम) प्रथमं जायते तम्। अत्र जनसन०। अ० ३।२।६७। अनेन जनधातोर्विट् प्रत्ययः। (अहीनाम्) मेघानाम् ॥३॥
पुनः स कीदृश इत्युपदिश्यते।
DR. TULSI RAM
ACHARYA DHARMA DEVA VIDYA MARTANDA
How is that Indra is further taught in the third Mantra.
Impetuous like a bull, the Sun takes with his rays the sap of all substances in the world which have their birth, sustenance and disintegration like the cloud. He smites the first formed cloud with his rays. A person acting like the Sun and possessing 'sun-like vigor and splendor, deserves to be the commander of an army.
MATA SAVITA JOSHI
N/A
