अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रम् । वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ॥
atiṣṭhantīnām aniveśanānāṁ kāṣṭhānām madhye nihitaṁ śarīram | vṛtrasya niṇyaṁ vi caranty āpo dīrghaṁ tama āśayad indraśatruḥ ||
अति॑ष्ठन्तीनाम् । अ॒नि॒वे॒श॒नाना॑म् । काष्ठा॑नाम् । मध्ये॑ । निहि॑तम् । शरी॑रम् । वृ॒त्रस्य॑ । नि॒ण्यम् । वि । च॒र॒न्ति॒ । आपः॑ । दी॒र्घम् । तमः॑ । आ । अ॒श॒य॒त् । इन्द्र॑शत्रुः॥
SWAMI DAYANAND SARSWATI
फिर उस मेघ का शरीर कैसा और कहाँ स्थित होता है, इस विषय का उपदेश अगले मन्त्र में किया है।
SWAMI DAYANAND SARSWATI
(अतिष्ठन्तीनाम्) चलन्तीनामपाम् (अनिवेशनानाम्) अविद्यमानं निवेशनमेकत्रस्थानं यासां तासाम् (काष्ठानाम्) काश्यन्ते प्रकाश्यन्ते यासु ता दिशः। काष्ठा इति दिङ्नामसु पठितम्। निघं० १।६। अत्र हनिकुषिना० उ० २।२। इति क्थन् प्रत्ययः। (मध्ये) अन्तः (निहितम्) स्थापितम् (शरीरम्)। शीर्यते हिंस्यते यत्तत (वृत्रस्य) मेघस्य (निण्यम्) निश्चितान्तार्हितम्। निण्यमिति निर्णीतांतर्हितनामसु पठितम्। निघं० ३।२५। (वि) (चरन्ति) विविधतया गच्छंत्यागच्छन्ति (अपः) जलानि (दीर्घम्) महान्तम् (तमः) अन्धकारम् (आ) समन्तात् (अशयत्) शेते। बहुलं छन्दसि इति शपोलुङ् न। (इन्द्रशत्रुः) इन्द्रः शत्रुर्यस्य स मेघः यास्कमुनिरेवमिमं मंत्रं व्याचष्टे। अतिष्ठतीनामनिविशमानानामित्यस्यावराणां काष्ठानां मध्ये निहितं शरीरं मेघः। शरीरं शृणातेः शम्नातेर्वा। वृत्रस्य निण्यं निर्णामं विचरन्ति विजानंत्याप इति दीर्घ द्राघतेस्तमस्तनीते राशयदा शेतेरिन्द्रशत्रु रिंद्रोऽस्यशमयिता वा शातयिता वा तस्मादिन्द्रशत्रुस्तत्का वृत्रोमेघ इति नैरुक्ताः। निरु० २।१६। ॥१०॥
पुनस्तस्य शरीरं कीदृशं क्व तिष्ठतीत्युपदिश्यते।
MATA SAVITA JOSHI
N/A