SEARCH CHHANDA

We found 5 references of संस्तारपङ्क्तिः in Atharva Veda!

अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः। अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥


तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः। ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥


हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम्। त्रीन्घर्मानभि वावशाना मिमाति मायुं पयते पयोभिः ॥