Go To Mantra
Viewed 160 times

इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः। शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दाऽपुः॑ ॥

Mantra Audio
Pad Path

इह । ब्रवीतु । य: । ईम् । अङ्ग । वेद । अस्य । वामस्य । निऽहितम् । पदम् । वे: । शीर्ष्ण: । क्षीरम् । दुह्रते । गाव: । अस्य । वव्रिम् । वसाना: । उदकम् । पदा । अपु: ॥१४.५॥

Atharvaveda » Kand:9» Sukta:9» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

जीवात्मा और परमात्मा के ज्ञान का उपदेश।

Word-Meaning: - (अङ्ग) हे प्यारे ! (इह) इस [ब्रह्म विषय] में (ब्रवीतु) वह बोले, (यः) जो [पुरुष] (अस्य) इस (वामस्य) मनोहर (वेः) चलनेवाले [वा पक्षी रूप सूर्य] के (निहितम्) ठहराये हुए (पदम्) मार्ग को (ईम्) सब प्रकार (वेद) जानता है। (गावः) किरणें (अस्य) इस [सूर्य] के (शीर्ष्णः) मस्तक से (क्षीरम्) जल को (दुह्रते) दुहती [देती] हैं, [जिस] (उदकम्) जल को (वव्रिम्) रूप [सूर्य के प्रकाश] को (वसानाः) ओढ़ती हुई [उन किरणों] ने (पदा) [अपने] पैर [नीचे भाग] से (अपुः) पिया था ॥५॥
Connotation: - विज्ञानी पुरुष जानते हैं कि ईश्वरीय नियम से किरणों द्वारा जल सूर्य मण्डल में पहुँच कर फिर भूमि पर बरसता है, जिस से सब प्राणी अन्न आदि पाकर जीवन करते हैं ॥५॥ यह मन्त्र ऋग्वेद में है−१।१६४।७ ॥
Footnote: ५−(इह) अस्मिन् ब्रह्मविषये (ब्रवीतु) वदतु (यः) विद्वान् (ईम्) सर्वतः (अङ्ग) सम्बोधने (वेद) जानाति (अस्य) दृश्यमानस्य (वामस्य) म० १। मनोहरस्य (निहितम्) ब्रह्मणा स्थापितम् (पदम्) गन्तव्यं मार्गम् (वेः) वातेर्डिच्च। उ० ४।१३४। वा गतिगन्धनयोः−इण्, डित्। गन्तुः सूर्यस्य (शीर्ष्णः) मस्तकात् (क्षीरम्) जलम् (दुह्रते) बहुलं छन्दसि। पा० ७।१।८। रुडागमः। दुहते। पूरयन्ति (गावः) किरणाः (अस्य) (वव्रिम्) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। वृञ् वरणे-कि, द्विर्वचनम्, कित्वाद् गुणाभावः, यणादेशः। वव्रिरिति रूपनाम वृणोतीति सतः-निरु० २।९। वरणीयं रूपं प्रकाशम्। (वसानाः) अ० ३।१२।५। आच्छादयन्तः (उदकम) जलम् (पदा) पादेन। मूलेन (अपुः) पा पाने−लुङ्। पीतवन्तः ॥