Go To Mantra
Viewed 95 times

यो वै कु॒र्वन्तं॒ नाम॒र्तुं वेद॑। कु॑र्व॒तींकु॑र्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते। ए॒ष वै कु॒र्वन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥

Mantra Audio
Pad Path

य: । वै । कुर्वन्तम् । नाम । ऋतुम् । वेद । कुर्वतीम्ऽकुर्वतीम् । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । आ । दत्ते । एष: । वै । कुर्वन् । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन:॥५.३२॥

Atharvaveda » Kand:9» Sukta:5» Paryayah:0» Mantra:32


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मज्ञान से सुख का उपदेश।

Word-Meaning: - (यः) जो [परमेश्वर] (वै) निश्चय करके (कुर्वन्तम्) बनानेवाले (नाम) प्रसिद्ध (ऋतुम्) ऋतु को (वेद) जानता है। और [जो] (अप्रियस्य) अप्रिय (भ्रातृव्यस्य) शत्रु की (कुर्वतीं कुर्वतीम्) अच्छे प्रकार बनानेवाली (श्रियम्) श्री को (एव) निश्चय करके (आ दत्ते) ले लेता है, (एषः वै) वही (कुर्वन्) बनानेवाला (नाम) प्रसिद्ध.... म० ३१ ॥३२॥
Connotation: - वर्षा आदि ऋतु अन्न आदि उत्पन्न करके बुभुक्षा आदि कष्ट मिटाते हैं, उन ऋतुओं का आदि कारण परमेश्वर है, ऐसा जाननेवाला पुरुष निर्विघ्न रहता है ॥३२॥
Footnote: ३२−(कुर्वन्तम्) करोतेः शतृ, रचयन्तम् (कुर्वतीं कुर्वतीम्) रचन्तीं रचन्तीम् (श्रियम्) लक्ष्मीम् (आ दत्ते) गृह्णाति (कुर्वन्) निष्पादयन्। अन्यत् पूर्ववत् ॥