Go To Mantra
Viewed 70 times

यो वै नैदा॑घं॒ नाम॒र्तुं वेद॑। ए॒ष वै नैदा॑घो॒ नाम॒र्तुर्यद॒जः पञ्चौ॑दनः। निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥

Mantra Audio
Pad Path

य: । वै । नैदाघम्। नाम । ऋतुम् । वेद । एष: । वै । नैदाघ: । नाम । ऋतु: । यत् । अज: । पञ्चऽओदन: । नि: । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । दहति । भवति । आत्मना । य: । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.३१॥

Atharvaveda » Kand:9» Sukta:5» Paryayah:0» Mantra:31


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मज्ञान से सुख का उपदेश।

Word-Meaning: - (यः) जो [परमेश्वर] (वै) निश्चय करके (नैदाघम्) अतितापवाले (नाम) प्रसिद्ध (ऋतुम्) ऋतु को (वेद) जानता है, (एषः वै) वही (नैदाघः) अतितापवाले (नाम) प्रसिद्ध (ऋतुः) ऋतु [के समान] (यत्) पूजनीय ब्रह्म (अजः) अजन्मा (पञ्चौदनः) पाँच भूतों [पृथिवी आदि] का सींचनेवाला [परमेश्वर] है। वह [मनुष्य अपने] (एव) निश्चय करके (अप्रियस्य) अप्रिय (भ्रातृव्यस्य) शत्रु की (श्रियम्) श्री को (निर्दहति) जला देता है, और (आत्मना) अपने आत्मबल के साथ (भवति) रहता है। (यः) जो [पुरुष] (पञ्चौदनम्) पाँच भूतों [पृथिवी आदि] के सींचनेवाले, (दक्षिणाज्योतिषम्) दानक्रिया की ज्योति रखनेवाले (अजम्) अजन्मे वा गतिशील परमात्मा को [अपने आत्मा में] (ददाति) समर्पित करता है ॥३१॥
Connotation: - सूर्य और पृथिवी का घुमाव उष्ण, शीत आदि ऋतुओं का कारण है, उन सूर्य आदि लोकों का आदि कारण परमेश्वर है, ऐसा साक्षात् करनेवाला पुरुष निर्विघ्न होकर आनन्द भोगता है ॥३१॥
Footnote: ३१−(यः) परमेश्वरः (वै) निश्चयेन (नैदाघः) तस्येदम्। पा० ४।३।१२०। निदाघस्य महातापस्य सम्बन्धिनम् (नाम) प्रसिद्धौ (ऋतुम्) कालविशेषम् (वेद) जानाति (एषः) परमेश्वरः (नैदाघः) महातापसम्बन्धी (नाम) (ऋतुः) कालविशेषः (यत्) त्यजितनियजिभ्यो डित्। उ० १।१३२। यज देवपूजासंगितकरणदानेषु-अदि, डित्। पूजनीयं ब्रह्म (अजः) म० १। अजन्मा (पञ्चौदनः) पञ्चभूतानां सेचनं यस्मात् सः (निः) नितराम् (एव) (अप्रियस्य) अहितस्य (भ्रातृव्यस्य) भ्रातृभावरहितस्य (श्रियम्) लक्ष्मीम् (दहति) भस्मीकरोति (भवति) वर्तते (आत्मना) आत्मबलेन सह। अन्यत् पूर्ववत् ॥